Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 44
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    इ॒दं पूर्व॒मप॑रंनि॒यानं॒ येना॑ ते॒ पूर्वे॑ पि॒तरः॒ परे॑ताः। पु॑रोग॒वा ये अ॑भि॒शाचो॑ अस्य॒ तेत्वा॑ वहन्ति सु॒कृता॑मु लो॒कम् ॥

    स्वर सहित पद पाठ

    इ॒दम् । पूर्व॑म् । अप॑रम् । नि॒ऽयान॑म् । येन॑ । ते॒ । पूर्वे॑ । पि॒तर॑: । परा॑ऽइता: । पु॒र॒:ऽग॒वा: । ये । अ॒भि॒ऽशाच॑: । अ॒स्य॒ । ते । त्वा॒ । व॒ह॒न्ति॒ । सु॒ऽकृता॑म् । ऊं॒ इति॑ । लो॒कम् ॥४.४४॥


    स्वर रहित मन्त्र

    इदं पूर्वमपरंनियानं येना ते पूर्वे पितरः परेताः। पुरोगवा ये अभिशाचो अस्य तेत्वा वहन्ति सुकृतामु लोकम् ॥

    स्वर रहित पद पाठ

    इदम् । पूर्वम् । अपरम् । निऽयानम् । येन । ते । पूर्वे । पितर: । पराऽइता: । पुर:ऽगवा: । ये । अभिऽशाच: । अस्य । ते । त्वा । वहन्ति । सुऽकृताम् । ऊं इति । लोकम् ॥४.४४॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 44

    भावार्थ -
    हे पुरुष ! (इदं) यह मानुष देह ही वह (नियानम्) रथ है जो (पूर्वम्, अपरम्) पहले रहा और बाद में भी विद्यमान् है। (येन) जिसके द्वारा (ते) तेरे (पूर्वे पितरः) पहले पालक, पिता, पितामह आदि (परा-इताः) अपमा जीवन बिताकर इस लोक से चल बसे। (अस्य) इस देह में लगे ये (अभिशाचः) सब प्रकार से शक्तिमान् और (पुरोगवाः) आगे लगे बैलों के समान आगे आगे जानेवाले इन्द्रिय रूप प्राण हैं (ते) वे (त्वा) मुझ को (सुकृताम्) पुण्याचारवान् पुरुषों के (लोकम्) लोकको (वहन्ति) ले जावें।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमः, मन्त्रोक्ताः बहवश्च देवताः (८१ पितरो देवताः ८८ अग्निः, ८९ चन्द्रमाः) १, ४, ७, १४, ३६, ६०, भुरिजः, २, ५,११,२९,५०, ५१,५८ जगत्यः। ३ पश्चपदा भुरिगतिजगती, ६, ९, १३, पञ्चपदा शक्वरी (९ भुरिक्, १३ त्र्यवसाना), ८ पश्चपदा बृहती (२६ विराट्) २७ याजुषी गायत्री [ २५ ], ३१, ३२, ३८, ४१, ४२, ५५-५७,५९,६१ अनुष्टुप् (५६ ककुम्मती)। ३६,६२, ६३ आस्तारपंक्तिः (३९ पुरोविराड्, ६२ भुरिक्, ६३ स्वराड्), ६७ द्विपदा आर्ची अनुष्टुप्, ६८, ७१ आसुरी अनुष्टुप, ७२, ७४,७९ आसुरीपंक्तिः, ७५ आसुरीगायत्री, ७६ आसुरीउष्णिक्, ७७ दैवी जगती, ७८ आसुरीत्रिष्टुप्, ८० आसुरी जगती, ८१ प्राजापत्यानुष्टुप्, ८२ साम्नी बृहती, ८३, ८४ साम्नीत्रिष्टुभौ, ८५ आसुरी बृहती, (६७-६८,७१, (८६ एकावसाना), ८६, ८७, चतुष्पदा उष्णिक्, (८६ ककुम्मती, ८७ शंकुमती), ८८ त्र्यवसाना पथ्यापंक्तिः, ८९ पञ्चपदा पथ्यापंक्तिः, शेषा स्त्रिष्टुभः। एकोननवत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top