Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 86
सूक्त - पितरगण
देवता - चतुष्पदा ककुम्मती उष्णिक्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
येऽत्र॑ पि॒तरः॑पि॒तरो॒ येऽत्र॑ यू॒यं स्थ यु॒ष्मांस्तेऽनु॑ यू॒यं तेषां॒ श्रेष्ठा॑ भूयास्थ॥
स्वर सहित पद पाठये । अत्र॑ । पि॒तर॑: । पि॒तर॑: । ये । अत्र॑ । यू॒यम् । स्थ । यु॒ष्मान् । ते । अनु॑ । यू॒यम् । तेषा॑म् । श्रेष्ठा॑: । भू॒या॒स्थ॒ ॥४.८६॥
स्वर रहित मन्त्र
येऽत्र पितरःपितरो येऽत्र यूयं स्थ युष्मांस्तेऽनु यूयं तेषां श्रेष्ठा भूयास्थ॥
स्वर रहित पद पाठये । अत्र । पितर: । पितर: । ये । अत्र । यूयम् । स्थ । युष्मान् । ते । अनु । यूयम् । तेषाम् । श्रेष्ठा: । भूयास्थ ॥४.८६॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 86
विषय - देवयान और पितृयाण।
भावार्थ -
हे (पितरः) माता, पिता, आचार्य आदि गुरुजन (! अत्र) इस लोक में (ये) जो भी (पितरः) पालन करनेहारे हैं और (यो) जो (अत्र) यहां (यूयं स्थ) आप लोग हैं उनमें से जो (युष्मान् अनु ते) आप लोगों के अनुगामी है वे पूजनीय हैं। और (तेषाम्) उनमें से (यूयम्) आप लोग ही (प्रेष्ठाः भूयास्थ) श्रेष्ठ, अधिक आदर और प्रशंसा के पात्र रहें।
टिप्पणी -
‘पितरो त्र’ इति ह्विटनिकामित:। ‘येत्र पितरः पितरःस्थ यूयं तेषां श्रेष्ठाःस्थ’। ‘य इह पितरो मनुष्या वयं तेषां श्रेष्ठा भूयास्म’ इति शा० श्रो० सू०। य एतस्मिं लोके स्थ युष्मांस्तेऽनु। येऽस्मि लोके मां तेऽनु। य एतस्मिन् लोकेस्थ यूयं तेषां वसिष्ठा भूवस्त। येस्मिं लोकेऽइं तेषां वसिष्ठा भूयासम्’। इति तै० ब्रा० ‘एषा अस्माकं पितरः’। इमा अस्माकम्। जीवा वो जीवन्त इह सन्तः स्याम। इति मै० सं०। ‘एता युष्माकं पितरः। इमा अस्माकं’। इति आ० श्रौ० सू०॥
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमः, मन्त्रोक्ताः बहवश्च देवताः (८१ पितरो देवताः ८८ अग्निः, ८९ चन्द्रमाः) १, ४, ७, १४, ३६, ६०, भुरिजः, २, ५,११,२९,५०, ५१,५८ जगत्यः। ३ पश्चपदा भुरिगतिजगती, ६, ९, १३, पञ्चपदा शक्वरी (९ भुरिक्, १३ त्र्यवसाना), ८ पश्चपदा बृहती (२६ विराट्) २७ याजुषी गायत्री [ २५ ], ३१, ३२, ३८, ४१, ४२, ५५-५७,५९,६१ अनुष्टुप् (५६ ककुम्मती)। ३६,६२, ६३ आस्तारपंक्तिः (३९ पुरोविराड्, ६२ भुरिक्, ६३ स्वराड्), ६७ द्विपदा आर्ची अनुष्टुप्, ६८, ७१ आसुरी अनुष्टुप, ७२, ७४,७९ आसुरीपंक्तिः, ७५ आसुरीगायत्री, ७६ आसुरीउष्णिक्, ७७ दैवी जगती, ७८ आसुरीत्रिष्टुप्, ८० आसुरी जगती, ८१ प्राजापत्यानुष्टुप्, ८२ साम्नी बृहती, ८३, ८४ साम्नीत्रिष्टुभौ, ८५ आसुरी बृहती, (६७-६८,७१, (८६ एकावसाना), ८६, ८७, चतुष्पदा उष्णिक्, (८६ ककुम्मती, ८७ शंकुमती), ८८ त्र्यवसाना पथ्यापंक्तिः, ८९ पञ्चपदा पथ्यापंक्तिः, शेषा स्त्रिष्टुभः। एकोननवत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें