Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 87
सूक्त - पितरगण
देवता - चतुष्पदा शङकुमती उष्णिक्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
य इ॒ह पि॒तरो॑जी॒वा इ॒ह व॒यं स्मः॑। अ॒स्माँस्तेऽनु॑ व॒यं तेषां॒ श्रेष्ठा॑ भूयास्म ॥
स्वर सहित पद पाठये । इ॒ह । पि॒तर॑: । जी॒वा: । इ॒ह । व॒यम् । स्म॒: । अ॒स्मान् । ते । अनु॑ । व॒यम् । तेषा॑म् । श्रेष्ठा॑: । भू॒या॒स्म॒ ॥४.८७॥
स्वर रहित मन्त्र
य इह पितरोजीवा इह वयं स्मः। अस्माँस्तेऽनु वयं तेषां श्रेष्ठा भूयास्म ॥
स्वर रहित पद पाठये । इह । पितर: । जीवा: । इह । वयम् । स्म: । अस्मान् । ते । अनु । वयम् । तेषाम् । श्रेष्ठा: । भूयास्म ॥४.८७॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 87
विषय - देवयान और पितृयाण।
भावार्थ -
(इह) इस लोक में हे (पितरः) पालक जनो ! (ये) जो (जीवाः) जीव हैं और (इड) इस लोक में (ये वयं स्मः) जो हम लोग भी हैं। (ते) वे सब जीव (अस्मान् अनु) हम से उत्तर कर रहें। और (वयं) हम (तेषाम्) उन सब जीवों में (श्रेष्ठाः भूयास्म) श्रेष्ठ होकर रहें। अर्थात् सब पालकों में से मां बाप, गुरुजन अधिक आदर योग्य हों और अन्य सब जीवों में हम श्रेष्ठ होकर रहें।
टिप्पणी -
‘पितरो त्र’ इति ह्विटनिकामित:। ‘येत्र पितरः पितरःस्थ यूयं तेषां श्रेष्ठाःस्थ’। ‘य इह पितरो मनुष्या वयं तेषां श्रेष्ठा भूयास्म’ इति शा० श्रो० सू०। य एतस्मिं लोके स्थ युष्मांस्तेऽनु। येऽस्मि लोके मां तेऽनु। य एतस्मिन् लोकेस्थ यूयं तेषां वसिष्ठा भूवस्त। येस्मिं लोकेऽइं तेषां वसिष्ठा भूयासम्’। इति तै० ब्रा० ‘एषा अस्माकं पितरः’। इमा अस्माकम्। जीवा वो जीवन्त इह सन्तः स्याम। इति मै० सं०। ‘एता युष्माकं पितरः। इमा अस्माकं’। इति आ० श्रौ० सू०॥
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमः, मन्त्रोक्ताः बहवश्च देवताः (८१ पितरो देवताः ८८ अग्निः, ८९ चन्द्रमाः) १, ४, ७, १४, ३६, ६०, भुरिजः, २, ५,११,२९,५०, ५१,५८ जगत्यः। ३ पश्चपदा भुरिगतिजगती, ६, ९, १३, पञ्चपदा शक्वरी (९ भुरिक्, १३ त्र्यवसाना), ८ पश्चपदा बृहती (२६ विराट्) २७ याजुषी गायत्री [ २५ ], ३१, ३२, ३८, ४१, ४२, ५५-५७,५९,६१ अनुष्टुप् (५६ ककुम्मती)। ३६,६२, ६३ आस्तारपंक्तिः (३९ पुरोविराड्, ६२ भुरिक्, ६३ स्वराड्), ६७ द्विपदा आर्ची अनुष्टुप्, ६८, ७१ आसुरी अनुष्टुप, ७२, ७४,७९ आसुरीपंक्तिः, ७५ आसुरीगायत्री, ७६ आसुरीउष्णिक्, ७७ दैवी जगती, ७८ आसुरीत्रिष्टुप्, ८० आसुरी जगती, ८१ प्राजापत्यानुष्टुप्, ८२ साम्नी बृहती, ८३, ८४ साम्नीत्रिष्टुभौ, ८५ आसुरी बृहती, (६७-६८,७१, (८६ एकावसाना), ८६, ८७, चतुष्पदा उष्णिक्, (८६ ककुम्मती, ८७ शंकुमती), ८८ त्र्यवसाना पथ्यापंक्तिः, ८९ पञ्चपदा पथ्यापंक्तिः, शेषा स्त्रिष्टुभः। एकोननवत्यृचं सूक्तम्॥missing
इस भाष्य को एडिट करें