Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 20/ मन्त्र 1
    ऋषिः - प्रजापतिर्ऋषिः देवता - सभोशो देवता छन्दः - द्विपदा विराड गायत्री स्वरः - षड्जः
    6

    क्ष॒त्रस्य॒ योनि॑रसि क्ष॒त्रस्य॒ नाभि॑रसि। मा त्वा॑ हिꣳसी॒न्मा मा॑ हिꣳसीः॥१॥

    स्वर सहित पद पाठ

    क्ष॒त्रस्य॑। योनिः॑। अ॒सि॒। क्ष॒त्रस्य॑। नाभिः॑। अ॒सि॒। मा। त्वा॒। हि॒ꣳसी॒त्। मा। मा॒। हि॒ꣳसीः॒ ॥१ ॥


    स्वर रहित मन्त्र

    क्षत्रस्य योनिरसि क्षत्रस्य नाभिरसि । मा त्वा हिँसीन्मा मा हिँसीः ॥


    स्वर रहित पद पाठ

    क्षत्रस्य। योनिः। असि। क्षत्रस्य। नाभिः। असि। मा। त्वा। हिꣳसीत्। मा। मा। हिꣳसीः॥१॥

    यजुर्वेद - अध्याय » 20; मन्त्र » 1
    Acknowledgment

    अन्वयः - हे सभेश! यतस्त्वं क्षत्रस्य योनिरसि क्षत्रस्य नाभिरसि, तस्मात् त्वा कोऽपि मा हिंसीत्, त्वं मा मा हिंसीः॥१॥

    पदार्थः -
    (क्षत्रस्य) राज्यस्य (योनिः) निमित्तम् (असि) (क्षत्रस्य) राजकुलस्य (नाभिः) नाभिरिव जीवनहेतुः (असि) (मा) निषेधे (त्वा) त्वां सभापतिम् (हिंसीत्) हिंस्यात् (मा) (मा) माम् (हिंसीः) हिंस्याः॥१॥

    भावार्थः - स्वामी भृत्यजनाश्च परस्परमेवं प्रतिज्ञां कुर्यू राजजनाः प्रजाजनान् प्रजाजना राजजनाँश्च सततं रक्षेयुः, येन सर्वेषां सुखोन्नतिः स्यात्॥१॥

    इस भाष्य को एडिट करें
    Top