यजुर्वेद - अध्याय 20/ मन्त्र 81
ऋषिः - गृत्समद ऋषिः
देवता - अश्विनौ देवते
छन्दः - आर्च्युष्णिक्
स्वरः - ऋषभः
9
गोम॑दू॒ षु णा॑स॒त्याश्वा॑वद्यातमश्विना। व॒र्त्ती रु॑द्रा नृ॒पाय्य॑म्॥८१॥
स्वर सहित पद पाठगोम॒दिति॒ गोऽम॑त्। ऊँ॒ऽइत्यूँ॑। सु। ना॒स॒त्या॒। अश्वा॑वत्। अश्व॑व॒दिति॒ अश्व॑ऽवत्। या॒त॒म्। अ॒श्वि॒ना॒। व॒र्त्तिः। रु॒द्रा॒। नृ॒पाय्य॒मिति॑ नृ॒ऽपाय्य॑म् ॥८१ ॥
स्वर रहित मन्त्र
गोमदू षु णासत्या अश्वावद्यातमश्विना । वर्ती रुद्रा नृपाय्यम् ॥
स्वर रहित पद पाठ
गोमदिति गोऽमत्। ऊँऽइत्यूँ। सु। नासत्या। अश्वावत्। अश्ववदिति अश्वऽवत्। यातम्। अश्विना। वर्त्तिः। रुद्रा। नृपाय्यमिति नृऽपाय्यम्॥८१॥
विषयः - अथ विद्वद्विषये पश्वादिभिः पालनाविषयमाह॥
अन्वयः - हे नासत्या रुद्राश्विना यथा युवां गोमद्वर्त्तिरु अश्वावन्नृपाय्यं सुयातम्, तथा वयमपि प्राप्नुयाम॥८१॥
पदार्थः -
(गोमत्) गावो विद्यन्ते यस्मिंस्तत् (उ) वितर्के (सु) (नासत्या) सत्यव्यवहारयुक्तौ (अश्वावत्) प्रशस्ततुरङ्गयुक्तम्। अत्र मन्त्रे सोमाश्वेन्द्रिय॰ [अष्टा॰६.३.१३१] इति दीर्घः (यातम्) प्राप्नुतम् (अश्विना) विद्यावृद्धौ (वर्त्तिः) वर्त्तमानं मार्गम् (रुद्रा) दुष्टानां रोदयितारौ (नृपाय्यम्) नृणां पाय्यं मानम्॥८१॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। गोऽश्वहस्तिप्रभृतिभिः पालितैः पशुभिः स्वकीयमन्यदीयं च पालनं मनुष्यैः कार्य्यम्॥८१॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal