Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 20/ मन्त्र 71
    ऋषिः - विदर्भिर्ऋषिः देवता - इन्द्रसवितृवरुणा देवताः छन्दः - अनुष्टुप् स्वरः - गान्धारः
    8

    स॒वि॒ता वरु॑णो॒ दध॒द् यज॑मानाय दा॒शुषे॑।आद॑त्त॒ नमु॑चे॒र्वसु॑ सु॒त्रामा॒ बल॑मिन्द्रि॒यम्॥७१॥

    स्वर सहित पद पाठ

    स॒वि॒ता। वरु॑णः। दध॑त्। यज॑मानाय। दा॒शुषे। आ। अ॒द॒त्त॒। नमुचेः। वसु॑। सु॒त्रामेति॑ सु॒ऽत्रामा॑। बल॑म्। इ॒न्द्रि॒यम् ॥७१ ॥


    स्वर रहित मन्त्र

    सविता वरुणो दधद्यजमानाय दाशुषे । आदत्त नमुचेर्वसु सुत्रामा बलमिन्द्रियम् ॥


    स्वर रहित पद पाठ

    सविता। वरुणः। दधत्। यजमानाय। दाशुषे। आ। अदत्त। नमुचेः। वसु। सुत्रामेति सुऽत्रामा। बलम्। इन्द्रियम्॥७१॥

    यजुर्वेद - अध्याय » 20; मन्त्र » 71
    Acknowledgment

    अन्वयः - वरुणस्सविता सुत्रामा दाशुषे यजमानाय वसु दधत् सन् नमुचेर्बलमिन्द्रियमादत्त॥७१॥

    पदार्थः -
    (सविता) प्रेरकः (वरुणः) उत्तमः (दधत्) धारणं कुर्वन् (यजमानाय) संगच्छमानाय (दाशुषे) दात्रे (आ) (अदत्त) आदद्यात् (नमुचेः) धर्ममत्यजतः (वसु) द्रव्यम् (सुत्रामा) सुष्ठु रक्षकः (बलम्) (इन्द्रियम्) सुशिक्षितं मनः॥७१॥

    भावार्थः - दातारं संसेव्य ततः पदार्थान् प्राप्य यः सर्वस्य बलं वर्द्धयति, स बलवाञ्जायते॥७१॥

    इस भाष्य को एडिट करें
    Top