यजुर्वेद - अध्याय 20/ मन्त्र 21
ऋषिः - प्रस्कण्व ऋषिः
देवता - सूर्यो देवता
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
7
उद्व॒यं तम॑स॒स्परि॒ स्वः पश्य॑न्त॒ उत्त॑रम्। दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम्॥२१॥
स्वर सहित पद पाठउत्। व॒यम्। तम॑सः। परि॑। स्वः᳕। पश्य॑न्तः। उत्त॑र॒मित्युत्ऽत॑रम्। दे॒वम्। दे॒व॒त्रेति॑ देव॒ऽत्रा। सूर्य॑म्। अग॑न्म। ज्योतिः॑। उ॒त्त॒ममित्यु॑त्ऽत॒मम् ॥२१ ॥
स्वर रहित मन्त्र
उद्वयन्तमसस्परि स्वः पश्यन्तऽउत्तरम् । देवन्देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥
स्वर रहित पद पाठ
उत्। वयम्। तमसः। परि। स्वः। पश्यन्तः। उत्तरमित्युत्ऽतरम्। देवम्। देवत्रेति देवऽत्रा। सूर्यम्। अगन्म। ज्योतिः। उत्तममित्युत्ऽतमम्॥२१॥
विषयः - अथ प्रकृतविषये उपासनाविषयमाह॥
अन्वयः - हे मनुष्याः! यथा वयं तमसः परं ज्योतिः सूर्यं परि पश्यन्तः सन्तो देवत्रा देवं स्वरुत्तरमुत्तमं ज्योतिः स्वप्रकाशं परमेश्वरमुदगन्म, तथैव यूयमप्येनं प्राप्नुत॥२१॥
पदार्थः -
(उत्) (वयम्) (तमसः) अन्धकारात् (परि) सर्वतः (स्वः) सुखरूपम् (पश्यन्तः) (उत्तरम्) सर्वेभ्यः सूक्ष्मत्वादुत्तरम् (देवम्) दिव्यसुखप्रदम् (देवत्रा) दिव्यगुणेषु देवेषु (सूर्य्यम्) सवितारं चराचरात्मानं परमेश्वरं वा (अगन्म) प्राप्नुयाम (ज्योतिः) स्वप्रकाशस्वरूपम् (उत्तमम्) सर्वोत्कृष्टम्॥२१॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। यः सूर्यवत् स्वप्रकाशः सर्वात्मनां प्रकाशको महादेवो जगदीश्वरोऽस्ति, तमेव सर्वे मनुष्या उपासीरन्॥२१॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal