Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 20/ मन्त्र 80
    ऋषिः - विदर्भिर्ऋषिः देवता - अश्विसरस्वतीन्द्रा देवताः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः
    8

    अ॒श्विना॒ तेज॑सा॒ चक्षुः॑ प्रा॒णेन॒ सर॑स्वती वी॒र्यम्।वा॒चेन्द्रो॒ बले॒नेन्द्रा॑य दधुरिन्द्रि॒यम्॥८०॥

    स्वर सहित पद पाठ

    अ॒श्विना॑। तेज॑सा। चक्षुः॑। प्रा॒णेन॑। सर॑स्वती। वी॒र्य᳖म्। वा॒चा। इन्द्रः॑। बले॑न। इन्द्रा॑य। द॒धुः॒। इ॒न्द्रि॒यम् ॥८० ॥


    स्वर रहित मन्त्र

    अश्विना तेजसा चक्षुः प्राणेन सरस्वती वीर्यम् । वाचेन्द्रो बलेनेन्द्राय दधुरिन्द्रियम् ॥


    स्वर रहित पद पाठ

    अश्विना। तेजसा। चक्षुः। प्राणेन। सरस्वती। वीर्यम्। वाचा। इन्द्रः। बलेन। इन्द्राय। दधुः। इन्द्रियम्॥८०॥

    यजुर्वेद - अध्याय » 20; मन्त्र » 80
    Acknowledgment

    अन्वयः - हे मनुष्याः! यथा सरस्वती अश्विनेन्द्रश्चेन्द्राय प्राणेन वीर्यं तेजसा चक्षुर्वाचा बलेनेन्द्रियं दधुस्तथा धरन्तु॥८०॥

    पदार्थः -
    (अश्विना) अध्यापकोदेशकौ (तेजसा) प्रकाशेन (चक्षुः) प्रत्यक्षं चक्षुः (प्राणेन) जीवनेन (सरस्वती) विद्यावती (वीर्यम्) पराक्रमम् (वाचा) वाण्या (इन्द्रः) सभेशः (बलेन) (इन्द्राय) जीवाय (दधुः) धरेयुः (इन्द्रियम्) इन्द्रस्य जीवस्य लिङ्गम्॥८०॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्या यथा यथा विद्वत्संगेन विद्यां वर्द्धयेयुस्तथा तथा विज्ञानरुचयः स्युः॥८०॥

    इस भाष्य को एडिट करें
    Top