Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 20/ मन्त्र 61
    ऋषिः - विदर्भिर्ऋषिः देवता - अश्विसरस्वतीन्द्रा देवताः छन्दः - अनुष्टुप् स्वरः - गान्धारः
    7

    उ॒षासा॒नक्त॑मश्विना॒ दिवेन्द्र॑ꣳ सा॒यमि॑न्द्रि॒यैः।सं॒जा॒ना॒ने सु॒पेश॑सा॒ सम॑ञ्जाते॒ सर॑स्वत्या॥६१॥

    स्वर सहित पद पाठ

    उ॒षासा॑। उ॒षसेत्यु॒षसा॑। नक्त॑म्। अ॒श्वि॒ना॒। दिवा॑। इन्द्र॑म्। सा॒यम्। इ॒न्द्रि॒यैः। स॒ञ्जा॒ना॒ने इति॑ सम्ऽजाना॒ने। सु॒पेश॒सेति॑ सु॒ऽपेश॑सा। सम्। अ॒ञ्जा॒ते॒ऽइत्य॑ञ्जाते। सर॑स्वत्या ॥६१ ॥


    स्वर रहित मन्त्र

    उषासानक्ताश्विना दिवेन्द्रँ सायमिन्द्रियैः । सञ्जानाने सुपेशसा समञ्जाते सरस्वत्या ॥


    स्वर रहित पद पाठ

    उषासा। उषसेत्युषसा। नक्तम्। अश्विना। दिवा। इन्द्रम्। सायम्। इन्द्रियैः। सञ्जानाने इति सम्ऽजानाने। सुपेशसेति सुऽपेशसा। सम्। अञ्जातेऽइत्यञ्जाते। सरस्वत्या॥६१॥

    यजुर्वेद - अध्याय » 20; मन्त्र » 61
    Acknowledgment

    अन्वयः - हे विद्वांसः! यथा सुपेशसाऽश्विना सरस्वत्योषासा नक्तं सायं च दिवेन्द्रियैरिन्द्रं च संजानाने समञ्जाते, तथा यूयमपि प्रसिध्यत॥६१॥

    पदार्थः -
    (उषासा) प्रभाते। अत्र अन्येषामपि॰ [अष्टा॰६.३.१३७] इत्युपधादीर्घः (नक्तम्) रात्रौ (अश्विना) सूर्याचन्द्रमसौ (दिवा) दिने (इन्द्रम्) विद्युतम् (सायम्) संध्यासमये (इन्द्रियैः) इन्द्रस्य जीवस्य लिङ्गैः (संजानाने) (सुपेशसा) सुरूपौ (सम्) (अञ्जाते) प्रसिध्यतः (सरस्वत्या) प्रशस्तसुशिक्षातया वाचा॥६१॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। यथोषा रात्रिं सायं च दिनं निवर्त्तयति, तथा विद्वद्भिरविद्याकुशिक्षे निवार्य सर्वे विद्यासुशिक्षायुक्ताः सम्पादनीयाः॥६१॥

    इस भाष्य को एडिट करें
    Top