यजुर्वेद - अध्याय 20/ मन्त्र 90
ऋषिः - मधुच्छन्दा ऋषिः
देवता - अश्विसरस्वतीन्द्रा देवताः
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
5
अ॒श्विना॑ पिबतां॒ मधु॒ सर॑स्वत्या स॒जोष॑सा।इन्द्रः॑ सु॒त्रामा॑ वृत्र॒हा जु॒षन्ता॑ सो॒म्यं मधु॑॥९०॥
स्वर सहित पद पाठअ॒श्विना॑। पि॒ब॒ता॒म्। मधु॑। सर॑स्वत्या। स॒जोष॒सेति स॒ऽजोष॑सा। इन्द्रः॑। सु॒त्रामेति॑ सु॒ऽत्रामा॑। वृ॒त्र॒हेति॑ वृत्र॒ऽहा। जु॒षन्ता॑म्। सो॒म्यम्। मधु॑ ॥९० ॥
स्वर रहित मन्त्र
अश्विना पिबताम्मधु सरस्वत्या सजोषसा । इन्द्रः सुत्रामा वृत्रहा जुषन्ताँ सोम्यं मधु ॥
स्वर रहित पद पाठ
अश्विना। पिबताम्। मधु। सरस्वत्या। सजोषसेति सऽजोषसा। इन्द्रः। सुत्रामेति सुऽत्रामा। वृत्रहेति वृत्रऽहा। जुषन्ताम्। सोम्यम्। मधु॥९०॥
विषयः - पुनस्तमेव विषयमाह॥
अन्वयः - हे मनुष्याः! यथा सजोषसाऽश्विना सरस्वत्या मधु पिबताम्, यथा चेन्द्रः सुत्रामा वृत्रहा च सोम्यं मधु जुषन्तां तथा युष्माभिरप्यनुष्ठेयम्॥९०॥
पदार्थः -
(अश्विना) अध्यापकोपदेशकौ (पिबताम्) (मधु) मधुरादिगुणयुक्तमन्नम् (सरस्वत्या) सुसंस्कृतया वाचा (सजोषसा) समानं जोषः सेवनं ययोस्तौ (इन्द्रः) ऐश्वर्यवान् (सुत्रामा) सुष्ठु रक्षकः (वृत्रहा) यो वृत्रं मेघं हन्ति स सूर्य्यस्तद्वद्वर्त्तमानः (जुषन्ताम्) सेवन्ताम् (सोम्यम्) सोमे सोमलताद्योषधिगणे भवम् (मधु) मधुरविज्ञानम्॥९०॥
भावार्थः - अध्यापकोपदेशकाः स्वात्मवत्सर्वेषां विद्यासुखं वर्द्धयितुमिच्छेयुर्यतः सर्वे सुखिनः स्युः॥९०॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal