Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 20/ मन्त्र 72
    ऋषिः - विदर्भिर्ऋषिः देवता - इन्द्रसवितृवरुणा देवताः छन्दः - अनुष्टुप् स्वरः - गान्धारः
    7

    व॑रुणः क्ष॒त्रमि॑न्द्रि॒यं भगे॑न सवि॒ता श्रिय॑म्।सु॒त्रामा॒ यश॑सा॒ बलं॒ दधा॑ना य॒ज्ञमा॑शत॥७२॥

    स्वर सहित पद पाठ

    वरु॑णः। क्ष॒त्रम्। इ॒न्द्रि॒यम्। भगे॑न। स॒वि॒ता। श्रिय॑म्। सु॒त्रामेति॑ सु॒ऽत्रामा॑। यश॑सा। बल॑म्। दधा॑नाः। य॒ज्ञम्। आ॒श॒त॒ ॥७२ ॥


    स्वर रहित मन्त्र

    वरुणः क्षत्रमिन्द्रियम्भगेन सविता श्रियम् । सुत्रामा यशसा बलन्दधाना यज्ञमाशत ॥


    स्वर रहित पद पाठ

    वरुणः। क्षत्रम्। इन्द्रियम्। भगेन। सविता। श्रियम्। सुत्रामेति सुऽत्रामा। यशसा। बलम्। दधानाः। यज्ञम्। आशत॥७२॥

    यजुर्वेद - अध्याय » 20; मन्त्र » 72
    Acknowledgment

    अन्वयः - हे मनुष्याः! यथा वरुणः सविता सुत्रामा सूद्योगी सभेशो भगेन सह वर्त्तमानं क्षत्रमिन्द्रियं श्रियं यज्ञं च प्राप्नोति, तथा यशसा बलं दधानाः सन्तो यूयमाशत॥७२॥

    पदार्थः -
    (वरुणः) उत्तमपुरुषः (क्षत्रम्) राज्यम् (इन्द्रियम्) मनआदिकम् (भगेन) ऐश्वर्येण (सविता) ऐश्वर्योत्पादकः (श्रियम्) राज्यलक्ष्मीम् (सुत्रामा) सुष्ठु त्राता (यशसा) कीर्त्या (बलम्) (दधानाः) (यज्ञम्) (आशत) व्याप्नुत॥७२॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। ऐश्वर्येण विना राज्यं राज्येन विना श्रीः श्रिया विनोपभोगाश्च न प्राप्यन्ते, तस्मान्नित्यं पुरुषार्थेन वर्त्तितव्यम्॥७२॥

    इस भाष्य को एडिट करें
    Top