यजुर्वेद - अध्याय 20/ मन्त्र 27
ऋषिः - प्रजापतिर्ऋषिः
देवता - सोमो देवता
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
9
अ॒ꣳशुना॑ ते अ॒ꣳशुः पृ॑च्यतां॒ परु॑षा॒ परुः॑।ग॒न्धस्ते॒ सोम॑मवतु॒ मदा॑य॒ रसो॒ऽअच्यु॑तः॥२७॥
स्वर सहित पद पाठअ॒ꣳशुना॑। ते॒। अ॒ꣳशुः। पृ॒च्य॒ता॒म्। परु॑षा। परुः॑। ग॒न्धः। ते॒। सोम॑म्। अ॒व॒तु॒। मदा॑य। रसः॑। अच्युतः॑ ॥२७ ॥
स्वर रहित मन्त्र
अँशुना तेऽअँशुः पृच्यताम्परुषा परुः । गन्धस्ते सोममवतु मदाय रसोऽअच्युतः ॥
स्वर रहित पद पाठ
अꣳशुना। ते। अꣳशुः। पृच्यताम्। परुषा। परुः। गन्धः। ते। सोमम्। अवतु। मदाय। रसः। अच्युतः॥२७॥
विषयः - पुनस्तमेव विषयमाह॥
अन्वयः - हे विद्वन्! ते तवांऽशुनांऽशुः परुषा परुः पृच्यताम्, तेऽच्युतो गन्धो रसश्च मदाय सोममवतु॥२७॥
पदार्थः -
(अंशुना) भागेन (ते) तव (अंशुः) भागः (पृच्यताम्) सम्बध्यताम् (परुषा) मर्मणा (परुः) मर्म्म (गन्धः) (ते) तव (सोमम्) ऐश्वर्यम् (अवतु) (मदाय) आनन्दाय (रसः) सारः (अच्युतः) नाशरहितः॥२७॥
भावार्थः - यदा ध्यानावस्थितस्य मनुष्यस्य मनसा सहेन्द्रियाणि प्राणाश्च ब्रह्मणि स्थिरा भवन्ति, तदा स नित्यमानन्दति॥२७॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal