यजुर्वेद - अध्याय 20/ मन्त्र 41
ऋषिः - आङ्गिरस ऋषिः
देवता - उषासानक्ता देवते
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
10
उ॒षासा॒नक्ता॑ बृह॒ती बृ॒हन्तं॒ पय॑स्वती सु॒दुघे॒ शूर॒मिन्द्र॑म्। तन्तुं॑ त॒तं पेश॑सा सं॒वय॑न्ती दे॒वानां॑ दे॒वं य॑जतः सुरु॒क्मे॥४१॥
स्वर सहित पद पाठउ॒षासा॒नक्ता॑। उ॒षसा॒नक्तेत्यु॒षसा॒ऽक्ता॑। बृ॒ह॒तीऽइति॑ बृह॒ती। बृ॒हन्त॑म्। पय॑स्वती॒ऽइति॒ पय॑स्वती। सु॒दुघे॒ऽइति॑ सु॒दुघे॑। शूर॑म्। इन्द्र॑म्। तन्तु॑म्। त॒तम्। पेश॑सा। सं॒वय॑न्ती॒ इति॑ स॒म्ऽवय॑न्ती। दे॒वाना॑म्। दे॒वम्। य॒ज॒तः॒। सु॒रु॒क्मे इति॑ सुऽरु॒क्मे ॥४१ ॥
स्वर रहित मन्त्र
उषासानक्ता बृहती बृहन्तम्पयस्वती सुदुघे शूरमिन्द्रम् । तन्तुन्ततम्पेशसा सँवयन्ती देवानान्देवं यजतः सुरुक्मे ॥
स्वर रहित पद पाठ
उषासानक्ता। उषसानक्तेत्युषसाऽक्ता। बृहतीऽइति बृहती। बृहन्तम्। पयस्वतीऽइति पयस्वती। सुदुघेऽइति सुदुघे। शूरम्। इन्द्रम्। तन्तुम्। ततम्। पेशसा। संवयन्ती इति सम्ऽवयन्ती। देवानाम्। देवम्। यजतः। सुरुक्मे इति सुऽरुक्मे॥४१॥
विषयः - पुनस्तमेव विषयमाह॥
अन्वयः - हे मनुष्याः! यथा पेशसा संवयन्ती पयस्वती सुदुघे बृहती सुरुक्मे उषासानक्ता ततं देवानां देवं बृहन्तमिन्द्रं सूर्यं यजतस्तथैव तन्तुं शूरं पुरुषं यूयं सङ्गच्छध्वम्॥४१॥
पदार्थः -
(उषासानक्ता) उषाश्च नक्तं च ते (बृहती) वर्द्धमाने (बृहन्तम्) महान्तम् (पयस्वती) रात्र्यन्धकारयुक्ते (सुदुघे) सुष्ठु प्रपूरिके (शूरम्) निर्भयम् (इन्द्रम्) सूर्यम् (तन्तुम्) विस्तारकम् (ततम्) विस्तृतम् (पेशसा) रूपेण (संवयन्ती) प्रापयन्त्यौ। अत्र सर्वत्र बृहती इत्यादौ सुपां सुलुग्॰ [अष्टा॰७.१.३९] इति पूर्वसवर्णदीर्घः (देवानाम्) पृथिव्यादीनाम् (देवम्) द्योतकम् (यजतः) संगच्छेते (सुरुक्मे) सुष्ठु दीप्यमाने॥४१॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। यथा सर्वे लोका अखिलेभ्यो बृहत्तमं सूर्यलोकमाश्रयन्ति, तथैव सर्वे श्रेष्ठतमं पुरुषमाश्रयन्तु॥४१॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal