अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 27
सूक्त - भृगुः
देवता - मृत्युः
छन्दः - त्रिष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
उत्ति॑ष्ठता॒ प्र त॑रता सखा॒योऽश्म॑न्वती न॒दी स्य॑न्दत इ॒यम्। अत्रा॑ जहीत॒ ये अस॒न्नशि॑वाः शि॒वान्त्स्यो॒नानुत्त॑रेमा॒भि वाजा॑न् ॥
स्वर सहित पद पाठउत् । ति॒ष्ठ॒त॒ । प्र । त॒र॒त॒ । स॒खा॒य॒: । अश्म॑न्ऽवती । न॒दी । स्य॒न्द॒ते॒ । इ॒यम् । अत्र॑ । ज॒ही॒त॒ । ये । अस॑न् । अशि॑वा: । शि॒वान् । स्यो॒नान् । उत् । त॒रे॒म॒ । अ॒भि । वाजा॑न् ॥२.२७॥
स्वर रहित मन्त्र
उत्तिष्ठता प्र तरता सखायोऽश्मन्वती नदी स्यन्दत इयम्। अत्रा जहीत ये असन्नशिवाः शिवान्त्स्योनानुत्तरेमाभि वाजान् ॥
स्वर रहित पद पाठउत् । तिष्ठत । प्र । तरत । सखाय: । अश्मन्ऽवती । नदी । स्यन्दते । इयम् । अत्र । जहीत । ये । असन् । अशिवा: । शिवान् । स्योनान् । उत् । तरेम । अभि । वाजान् ॥२.२७॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 27
विषय - राजा और प्रजा के कर्तव्य का उपदेश।
पदार्थ -
(सखायः) हे मित्रो ! (उत् तिष्ठत) उठो, और (प्र तरत) उतर चलो, (इयम्) यह (अश्मन्वती) [बहुत पत्थरोंवाली] [दुस्तर] (नदी) नदी (स्यन्दते) बहती है। (ये) जो [पदार्थ] (अत्र) यहाँ [इस जगह वा समय] (अशिवाः) अमङ्गलकारी (असन्) होवें, [उन्हें] (जहीत) छोड़ो, (शिवान्) मङ्गलकारी और (स्योनान्) आनन्दकारी (वाजान् अभि) अन्न आदि भोगों की ओर (उत्तरेम) हम उतरें ॥२७॥
भावार्थ - जैसे मनुष्य बड़े दुर्गम्य समुद्र आदि को नौका आदि से पार करते हैं, वैसे ही उद्योगी मनुष्य प्रयत्न करके शुभ आचरणों के साथ दुःख से पार होकर आनन्द पाते हैं ॥२७॥ इस मन्त्र में मन्त्र २६ में वर्णित मन्त्रों के कुछ भाग हैं ॥
टिप्पणी -
२७−(उत् तिष्ठत) उत्थिता भवत (उत्तरत) पारयत (सखायः) हे सुहृदः (अश्मन्वती) बहुपाषाणवती। दुस्तरा (नदी) (स्यन्दते) स्रवति (इयम्) (अत्र) अस्मिन् स्थाने समये वा (जहीत) त्यजत (ये) पदार्थाः (असन्) भवन्तु (अशिवाः) अमङ्गलाः (शिवान्) मङ्गलकरान् (स्योनान्) सुखप्रदान् (उत्तरेम) पारयेम (अभि) अभिलक्ष्य (वाजान्) अन्नादिभोगान् ॥