अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 43
सूक्त - भृगुः
देवता - अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
इ॒मं क्र॒व्यादा वि॑वेशा॒यं क्र॒व्याद॒मन्व॑गात्। व्या॒घ्रौ कृ॒त्वा ना॑ना॒नं तं ह॑रामि शिवाप॒रम् ॥
स्वर सहित पद पाठइ॒मम् । क्र॒व्य॒ऽअत् । आ । वि॒वे॒श॒ । अ॒यम् । क्र॒व्य॒ऽअद॑म् । अनु॑ । अ॒गा॒त् । व्या॒घ्रौ । कृ॒त्वा । ना॒ना॒नम् । तम् । ह॒रा॒मि॒ । शि॒व॒ऽअ॒प॒रम् ॥२.४३॥
स्वर रहित मन्त्र
इमं क्रव्यादा विवेशायं क्रव्यादमन्वगात्। व्याघ्रौ कृत्वा नानानं तं हरामि शिवापरम् ॥
स्वर रहित पद पाठइमम् । क्रव्यऽअत् । आ । विवेश । अयम् । क्रव्यऽअदम् । अनु । अगात् । व्याघ्रौ । कृत्वा । नानानम् । तम् । हरामि । शिवऽअपरम् ॥२.४३॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 43
विषय - राजा और प्रजा के कर्तव्य का उपदेश।
पदार्थ -
(क्रव्यात्) मांसभक्षक [दोष] ने (इमम्) इस [पुरुष] में (आ विवेश) आकर प्रवेश किया है, [अथवा] (अयम्) यह [पुरुष] (क्रव्यादम् अनु) मांसभक्षक [दोष] के पीछे-पीछे (अगात्) चला है। (व्याघ्रौ) इन दोनों व्याघ्रों [दोषों] को (नानानम्) पृथक्-पृथक् (कृत्वा) करके (तम्) उस (शिवापरम्) मङ्गल से भिन्न [अमङ्गलकारी दोष] को (हरामि) नाश करता हूँ ॥४३॥
भावार्थ - यदि दुराचारी मनुष्य शिष्टों में जा मिले वा शिष्ट दुराचारियों में जा पड़े, दोनों दशाओं को विचार कर शिष्ट पुरुष दुष्ट व्यवहार से प्रयत्नपूर्वक छूटे ॥४३॥
टिप्पणी -
४३−(इमम्) पुरुषम् (क्रव्यात्) मांसभक्षको दोषः (आ विवेश) प्रविष्टवान् (अयम्) पुरुषः (क्रव्यादम्) मांसभक्षकं दोषम् (अनु) अनुसृत्य (अयात्) (व्याघ्रौ) तौ व्याघ्ररूपौ (कृत्वा) (नानानम्) नाना+णीञ् प्रापणे−ड। पृथक् पृथक् (तम्) दोषम् (हरामि) नाशयामि (शिवापरम्) शिवेन मङ्गलव्यवहारेण अपरं भिन्नम्। अमङ्गलकरं दोषम् ॥