अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 15
सूक्त - भृगुः
देवता - अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
यो नो॒ अश्वे॑षु वी॒रेषु॒ यो नो॒ गोष्व॑जा॒विषु॑। क्र॒व्यादं॒ निर्णु॑दामसि॒ यो अ॒ग्निर्ज॑न॒योप॑नः ॥
स्वर सहित पद पाठय: । न॒: । अश्वे॑षु । वी॒रेषु॑ । य: । न॒: । गोषु॑ । अ॒ज॒ऽअ॒विषु॑ । क्र॒व्य॒ऽअद॑म् । नि: । नु॒दा॒म॒सि॒ । य: । अ॒ग्नि: । ज॒न॒ऽयोप॑न: ॥२.१५॥
स्वर रहित मन्त्र
यो नो अश्वेषु वीरेषु यो नो गोष्वजाविषु। क्रव्यादं निर्णुदामसि यो अग्निर्जनयोपनः ॥
स्वर रहित पद पाठय: । न: । अश्वेषु । वीरेषु । य: । न: । गोषु । अजऽअविषु । क्रव्यऽअदम् । नि: । नुदामसि । य: । अग्नि: । जनऽयोपन: ॥२.१५॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 15
विषय - राजा और प्रजा के कर्तव्य का उपदेश।
पदार्थ -
(यः) जो [दुष्ट] (नः) हमारे (अश्वेषु) घोड़ों में और (वीरेषु) वीरों में, (यः) जो (नः) हमारी (गोषु) गौओं में और (अजाविषु) भेड़-बकरियों में और (यः) जो (अग्निः) अग्नि [समान सन्तापकारी दुष्ट] (जनयोपनः) मनुष्यों को व्याकुल करनेवाला है, [उस] (क्रव्यादम्) मांसभक्षक [पिशाच] को (निः नुदामसि) हम निकाले देते हैं ॥१५॥
भावार्थ - सब धर्मात्मा लोग मिलकर परस्पर सुखवृद्धि के लिये दुराचारी दुःखदायी पुरुष को निकाल देवें ॥१५॥
टिप्पणी -
१५−(यः) दुष्टः (नः) अस्माकम् (अश्वेषु) (वीरेषु) (यः) (नः) (गोषु) धेनुषु (अजाविषु) अजेषु छागेषु अविषु मेषेषु च (क्रव्यादम्) मांसभक्षकम् (निर्णुदामसि) निर्गमयामः (यः) (अग्निः) अग्निवत्सन्तापकः (जनयोपनः) जनानां विमोहकः ॥