अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 7
यो अ॒ग्निः क्र॒व्यात्प्र॑वि॒वेश॑ नो गृ॒हमि॒मं पश्य॒न्नित॑रं जा॒तवे॑दसम्। तं ह॑रामि पितृय॒ज्ञाय॑ दू॒रं स घ॒र्ममि॑न्धां पर॒मे स॒धस्थे॑ ॥
स्वर सहित पद पाठय: । अ॒ग्नि: । क्र॒व्य॒ऽअत् । प्र॒ऽवि॒वेश॑ । न॒: । गृ॒हम् । इ॒मम् । पश्य॑न् । इत॑रम् । जा॒तऽवे॑दसम् । तम् । ह॒रा॒मि॒ । पि॒तृ॒ऽय॒ज्ञाय॑ । दू॒रम् । स: । घ॒र्मम् । इ॒न्धा॒म् । प॒र॒मे । स॒धऽस्थे॑ ॥२.७॥
स्वर रहित मन्त्र
यो अग्निः क्रव्यात्प्रविवेश नो गृहमिमं पश्यन्नितरं जातवेदसम्। तं हरामि पितृयज्ञाय दूरं स घर्ममिन्धां परमे सधस्थे ॥
स्वर रहित पद पाठय: । अग्नि: । क्रव्यऽअत् । प्रऽविवेश । न: । गृहम् । इमम् । पश्यन् । इतरम् । जातऽवेदसम् । तम् । हरामि । पितृऽयज्ञाय । दूरम् । स: । घर्मम् । इन्धाम् । परमे । सधऽस्थे ॥२.७॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 7
विषय - राजा और प्रजा के कर्तव्य का उपदेश।
पदार्थ -
(यः) जिस [क्रव्यात्] मांसभक्षक (अग्निः) अग्नि [समान सन्तापक पुरुष] ने (नः) हमारे (गृहम्) घर में (प्रविवेश) प्रवेश किया है, [सो] (इमम्) इस (इतरम्) दूसरे [उससे भिन्न शुभगुणी] (जातवेदसम्) ज्ञानवान् राजा को (पश्यन्) देखता हुआ (पितृयज्ञाय) पितरों [रक्षक विद्वानों] के सत्कार के लिये (तम्) उस [दुष्ट] को (दूरम्) दूर (हरामि) भेजता हूँ और (सः) वह [राजा] (परमे) बड़े उत्कृष्ट (सधस्थे) समाज में (घर्मम्) यज्ञ को (इन्धाम्) प्रकाशित करे ॥७॥
भावार्थ - प्रजागण चतुर नीतिज्ञ राजा के सहाय से क्रूर सन्तापकारी जन को निकाल देवें, जिससे सत्पुरुषों के सद्गुण संसार में फैलें और विजय पाने से राजा की कीर्ति बढ़े ॥७॥ यह मन्त्र कुछ भेद से है−ऋग्वेद १०।१६।१० ॥
टिप्पणी -
७−(यः) (अग्निः) अग्निवत्सन्तापको दुष्टः (क्रव्यात्) मांसभक्षकः क्रूरः (प्रविवेश) प्रविष्टवान् (नः) अस्माकम् (गृहम्) निवासम्, (इमम्) प्रसिद्धम् (पश्यन्) अवलोकयन् (इतरम्) दुष्टाद् भिन्नम् (जातवेदसम्) प्रसिद्धज्ञानम् (तम्) दुष्टम् (हरामि) नयामि (पितृयज्ञाय) पितॄणां रक्षक विदुषां पूजनाय (सः) जातवेदाः (घर्मम्) यज्ञम्−निघ० ३।१७। (इन्धाम्) प्रकाशयतु (परमे) उत्कृष्टे (सधस्थे) सहस्थितिस्थाने ॥