अथर्ववेद - काण्ड 9/ सूक्त 7/ मन्त्र 10
धा॒ता च॑ सवि॒ता चा॑ष्ठी॒वन्तौ॒ जङ्घा॑ गन्ध॒र्वा अ॑प्स॒रसः॒ कुष्ठि॑का॒ अदि॑तिः श॒फा ॥
स्वर सहित पद पाठधा॒ता । च॒ । स॒वि॒ता । च॒ । अ॒ष्ठी॒वन्तौ॑ । जङ्घा॑: । ग॒न्ध॒र्वा: ।अ॒प्स॒रस॑: । कुष्ठि॑का: । अदि॑ति: । श॒फा: ॥१२.१०॥
स्वर रहित मन्त्र
धाता च सविता चाष्ठीवन्तौ जङ्घा गन्धर्वा अप्सरसः कुष्ठिका अदितिः शफा ॥
स्वर रहित पद पाठधाता । च । सविता । च । अष्ठीवन्तौ । जङ्घा: । गन्धर्वा: ।अप्सरस: । कुष्ठिका: । अदिति: । शफा: ॥१२.१०॥
अथर्ववेद - काण्ड » 9; सूक्त » 7; मन्त्र » 10
विषय - सृष्टि की धारणविद्या का उपदेश।
पदार्थ -
[सृष्टि में] (धाता) धारण करनेवाला गुण (च) और (सविता) ऐश्वर्य करनेवाला गुण (च) ही (अष्ठीवन्तौ) दोनों घुटने, (गन्धर्वाः) पृथिवी धारण करनेवाले गुण (जङ्घाः) जङ्घाएँ (अप्सरसः) प्राणियों में व्यापक गुण (कुष्ठिकाः) [नख अङ्गुली आदि] बाहिरी अङ्गों [के समान] और (अदितिः) [अदीन वा अखण्डित] वेदवाणी (शफाः) शान्तिव्यवहार [हैं] ॥१०॥
भावार्थ - मन्त्र ७ के समान है ॥१०॥
टिप्पणी -
१०−(धाता) धारको गुणः (च) (सविता) ऐश्वर्यप्रापको गुणः (अष्ठीवन्तौ) अ० २।३३।५। जानुनी (जङ्घाः) गत्यर्थकस्य हन्तेः−कौटिल्ये यङ्, अ, टाप्। गुल्फजान्वोरन्तराले अवयवाः (गन्धर्वाः) अ० ४।३७।१२। पृथिवीधारका गुणाः (अप्सरसः) अ० ४।३७।२। अप्सु प्राणेषु व्यापका गुणाः (कुष्ठिकाः) अ० ६।४।१६। बहिर्भूता अवयवाः (अदितिः) अ० २।२८।४। अदीना अखण्डिता वा वेदवाणी (शफाः) शम शान्तौ-अच्, मस्य फः पृषोदरादित्वात्। इति शब्दस्तोममहानिधिः। शान्तिव्यवहाराः ॥