अथर्ववेद - काण्ड 9/ सूक्त 7/ मन्त्र 11
चेतो॒ हृद॑यं॒ यकृ॑न्मे॒धा व्र॒तं पु॑री॒तत् ॥
स्वर सहित पद पाठचेत॑: । हृद॑यम् । यकृ॑त् । मे॒धा । व्र॒तम् । पु॒रि॒ऽतत् ॥१२.११॥
स्वर रहित मन्त्र
चेतो हृदयं यकृन्मेधा व्रतं पुरीतत् ॥
स्वर रहित पद पाठचेत: । हृदयम् । यकृत् । मेधा । व्रतम् । पुरिऽतत् ॥१२.११॥
अथर्ववेद - काण्ड » 9; सूक्त » 7; मन्त्र » 11
विषय - सृष्टि की धारणविद्या का उपदेश।
पदार्थ -
[सृष्टि में] (चेतः) विचार (हृदयम्) हृदय (मेधा) बुद्धि (यकृत्) [सङ्गति करनेवाला] कलेजा (व्रतम्) व्रत [नियम] (पुरीतत्) पुरीतत् [शरीर को फैलानेवाली सूक्ष्म आँत के समान हैं] ॥११॥
भावार्थ - मन्त्र ७ के समान है ॥११॥
टिप्पणी -
११−(चेतः) ज्ञानम् (हृदयम्) हृदयं चेतनास्थानमोजसश्चाश्रयम्। शार्ङ्गधरः, अ० ५।४२। (यकृत्) शकेर्ऋतिन्। उ० ४।५८। यज सङ्गतिकरणे−ऋतिन्, जस्य कः। संगच्छमानम्। कालखण्डम्। यकृद्रञ्जकपित्तस्य स्थानं रक्तस्य संश्रयम्। शार्ङ्गधरः, अ० ५।३९। (मेधा) बुद्धिः (व्रतम्) वरणीयो व्यवहारः। नियमः (पुरीतत्) कॄगॄशॄपॄकुटि०। उ० ४।१४३। पॄ पालनपूरणयोः−इ+तनु विस्तारे−क्विप्। पुरीं शरीरं तनोतीति। सूक्ष्मान्त्रम् ॥