अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 15
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - भुरिग्बृहती
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
दू॒रे पू॒र्णेन॑ वसति दू॒र ऊ॒नेन॑ हीयते। म॒हद्य॒क्षं भुव॑नस्य॒ मध्ये॒ तस्मै॑ ब॒लिं रा॑ष्ट्र॒भृतो॑ भरन्ति ॥
स्वर सहित पद पाठदू॒रे । पू॒र्णेन॑ । व॒स॒ति॒ । दू॒रे । ऊ॒नेन॑ । ही॒य॒ते॒ । म॒हत् । य॒क्षम् । भुव॑नस्य । मध्ये॑ । तस्मै॑ । ब॒लिम् । रा॒ष्ट्र॒ऽभृत॑: । भ॒र॒न्ति॒ ॥८.१५॥
स्वर रहित मन्त्र
दूरे पूर्णेन वसति दूर ऊनेन हीयते। महद्यक्षं भुवनस्य मध्ये तस्मै बलिं राष्ट्रभृतो भरन्ति ॥
स्वर रहित पद पाठदूरे । पूर्णेन । वसति । दूरे । ऊनेन । हीयते । महत् । यक्षम् । भुवनस्य । मध्ये । तस्मै । बलिम् । राष्ट्रऽभृत: । भरन्ति ॥८.१५॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 15
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १५−(दूरे) दूरे वर्तमानः सन् अतिसूक्ष्मत्वात् (पूर्णेन) महाविदुषा सह (वसति) वर्तते (दूरे) (ऊनेन) विद्याहीनेन सह (हीयते) त्यज्यते (महत्) बृहत् (यक्षम्) पूजनीयं ब्रह्म (भुवनस्य) जगतः (मध्ये) (तस्मै) ब्रह्मणे (बलिम्) सत्कारम् (राष्ट्रभृतः) राज्यधारकाः। महाराजाः (भरन्ति) कुर्वन्ति ॥
इस भाष्य को एडिट करें