अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 7
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - पराबृहती त्रिष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
एक॑चक्रं वर्तत॒ एक॑नेमि स॒हस्रा॑क्षरं॒ प्र पु॒रो नि प॑श्चा। अ॒र्धेन॒ विश्वं॒ भुव॑नं ज॒जान॒ यद॑स्या॒र्धं क्व तद्ब॑भूव ॥
स्वर सहित पद पाठएक॑ऽचक्रम् । व॒र्त॒ते॒ । एक॑ऽनेमि । स॒हस्र॑ऽअक्षरम् । प्र । पु॒र: । नि । प॒श्चा । अ॒र्धेन॑ । विश्व॑म् । भुव॑नम् । ज॒जान॑ । यत् । अ॒स्य॒ । अ॒र्धम् । क्व᳡ । तत् । ब॒भू॒व॒ ॥८.७॥
स्वर रहित मन्त्र
एकचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चा। अर्धेन विश्वं भुवनं जजान यदस्यार्धं क्व तद्बभूव ॥
स्वर रहित पद पाठएकऽचक्रम् । वर्तते । एकऽनेमि । सहस्रऽअक्षरम् । प्र । पुर: । नि । पश्चा । अर्धेन । विश्वम् । भुवनम् । जजान । यत् । अस्य । अर्धम् । क्व । तत् । बभूव ॥८.७॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(एकचक्रम्) एकं चक्रं यस्य तत् (वर्तते) (एकनेमि) नियो मिः। उ० ४।४३। णीञ् प्रापणे−मि। एको नेमिर्नयनं चालनं यस्य तत् (सहस्राक्षरम्) अशेः सरः। उ० ३।७०। अशू व्याप्तौ-सर प्रत्ययः। बहुविधव्यापकम् (प्र) प्रकर्षेण (पुरः) पुरस्तात्। अग्रे (नि) (निश्चयेन) (पश्चा) पश्चात् (अर्धेन) अल्पखण्डेन (विश्वम्) सर्वम् (भुवनम्) अस्तित्वम् (जजान) उत्पादयामास (यत्) (अस्य) ब्रह्मणः (अर्धम्) (क्व) कुत्र (तत्) (बभूव) ववृते ॥
इस भाष्य को एडिट करें