Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 23
    सूक्त - कुत्सः देवता - आत्मा छन्दः - अनुष्टुप् सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त

    स॑ना॒तन॑मेनमाहुरु॒ताद्य स्या॒त्पुन॑र्णवः। अ॑होरा॒त्रे प्र जा॑येते अ॒न्यो अ॒न्यस्य॑ रू॒पयोः॑ ॥

    स्वर सहित पद पाठ

    स॒ना॒तन॑म् । ए॒न॒म् । आ॒हु॒: । उ॒त । अ॒द्य । स्या॒त् । पुन॑:ऽनव: । अ॒हो॒रा॒त्रे इति॑ । प्र । जा॒ये॒ते॒ इति॑ । अ॒न्य: । अ॒न्यस्य॑ । रू॒पयो॑: ॥८.२३॥


    स्वर रहित मन्त्र

    सनातनमेनमाहुरुताद्य स्यात्पुनर्णवः। अहोरात्रे प्र जायेते अन्यो अन्यस्य रूपयोः ॥

    स्वर रहित पद पाठ

    सनातनम् । एनम् । आहु: । उत । अद्य । स्यात् । पुन:ऽनव: । अहोरात्रे इति । प्र । जायेते इति । अन्य: । अन्यस्य । रूपयो: ॥८.२३॥

    अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 23

    टिप्पणीः - २३−(सनातनम्) म० २२। सदा वर्तमानम् (एनम्) सर्वव्यापकं परमात्मानम् (आहुः) कथयन्ति विद्वांसः (उत) अपि (अद्य) वर्तमाने दिने। प्रतिदिनम् (स्यात्) (पुनर्णवः) वारं वारं नवीनः (अहोरात्रे) रात्रिदिने (प्र जायेते) उत्पद्येते (अन्योऽन्यस्य) कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये समासवच्च बहुलम्। इति द्वित्त्वम्। असमासवद्भावे पूर्वपदस्थस्य सुपः सुर्वक्तव्यः। वा० पा० ८।१।१२। इति पूर्वपदात् सुपः सुः। परस्परस्य (रूपयोः) स्वरूपयोः सकाशात् ॥

    इस भाष्य को एडिट करें
    Top