अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 6
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - अनुष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
आ॒विः सन्निहि॑तं॒ गुहा॒ जर॒न्नाम॑ म॒हत्प॒दम्। तत्रे॒दं सर्व॒मार्पि॑त॒मेज॑त्प्रा॒णत्प्रति॑ष्ठितम् ॥
स्वर सहित पद पाठआ॒वि: । सत् । निऽहि॑तम् । गुहा॑ । जर॑त् । नाम॑ । म॒हत् । प॒दम् । तत्र॑ । इ॒दम् । सर्व॑म् । आर्पि॑तम् । एज॑त् । प्रा॒णत् । प्रति॑ऽस्थितम् ॥८.६॥
स्वर रहित मन्त्र
आविः सन्निहितं गुहा जरन्नाम महत्पदम्। तत्रेदं सर्वमार्पितमेजत्प्राणत्प्रतिष्ठितम् ॥
स्वर रहित पद पाठआवि: । सत् । निऽहितम् । गुहा । जरत् । नाम । महत् । पदम् । तत्र । इदम् । सर्वम् । आर्पितम् । एजत् । प्राणत् । प्रतिऽस्थितम् ॥८.६॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(आविः) अ० ८।३।२४। आङ्+अव रक्षणादिषु-इसि। प्रकटम् (सत्) अविनाशि ब्रह्म (निहितम्) दृढं स्थापितम् (गुहा) गुहायाम्। हृदये (जरत्) जीर्यतेरतृन्। पा० ३।२।१०४। इति जॄ स्तुतौ-अतृन्, बाहुलकात्। जरा स्तुतिर्जरतेः स्तुतिकर्मणः-निरु० १०।८। स्तुत्यम् (नाम) प्रसिद्धम् (महत्) पूजनीयम् (पदम्) प्रापणीयम् (तत्र) ब्रह्मणि (इदम्) दृश्यमानम् (सर्वम्) जगत् (आर्पितम्) समन्तात् स्थापितम् (एजत्) चेष्टायमानम् (प्राणत्) श्वसत् (प्रतिष्ठितम्) प्रत्यक्षं स्थितम् ॥
इस भाष्य को एडिट करें