अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 9
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - त्रिष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
ति॒र्यग्बि॑लश्चम॒स ऊ॒र्ध्वबु॑ध्न॒स्तस्मि॒न्यशो॒ निहि॑तं वि॒श्वरू॑पम्। तदा॑सत॒ ऋष॑यः स॒प्त सा॒कं ये अ॒स्य गो॒पा म॑ह॒तो ब॑भू॒वुः ॥
स्वर सहित पद पाठति॒र्यक्ऽबि॑ल: । च॒म॒स: । ऊ॒र्ध्वऽबु॑ध्न: । तस्मि॑न् । यश॑: । निऽहि॑तम् । वि॒श्वऽरू॑पम् । तत् । आ॒स॒ते॒ । ऋष॑य: । स॒प्त । सा॒कम् । ये । अ॒स्य । गो॒पा । म॒ह॒त: । ब॒भू॒वु: ॥८.९॥
स्वर रहित मन्त्र
तिर्यग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन्यशो निहितं विश्वरूपम्। तदासत ऋषयः सप्त साकं ये अस्य गोपा महतो बभूवुः ॥
स्वर रहित पद पाठतिर्यक्ऽबिल: । चमस: । ऊर्ध्वऽबुध्न: । तस्मिन् । यश: । निऽहितम् । विश्वऽरूपम् । तत् । आसते । ऋषय: । सप्त । साकम् । ये । अस्य । गोपा । महत: । बभूवु: ॥८.९॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(तिर्यग्बिलः) वक्रगतिच्छिद्रयुक्तः (चमसः) पात्रम्। मस्तकम् (ऊर्ध्वबुध्नः) बन्धेर्ब्रधिबुधी च। उ० ३।५। उपरिबन्धनः (तस्मिन्) चमसे (यशः) अशेर्देवने युट् च। उ० ४।१९१। व्याप्तौ-असुन् युडागमः। व्याप्तिमद् ज्ञानसामर्थ्यम् (निहितम्) स्थापितम् (विश्वरूपम्) समस्तम् (तत्) तत्र (आसते) उपविशन्ति (ऋषयः) अ० ४।११।९। ऋष गतौ दर्शने च-इन्। ज्ञानकराणि मार्गदर्शकानि वा शीर्षण्यानि सप्तच्छिद्राणि (सप्त) (साकम्) परस्परम् (ये) (अस्य) दृश्यमानस्य (गोपाः) गुपू रक्षणे-अच्। रक्षकाः (महतः) विशालस्य शरीरस्य (बभूवुः) ॥
इस भाष्य को एडिट करें