अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 3
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - त्रिष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
ति॒स्रो ह॑ प्र॒जा अ॑त्या॒यमा॑य॒न्न्यन्या अ॒र्कम॒भितो॑ऽविशन्त। बृ॒हन्ह॑ तस्थौ॒ रज॑सो वि॒मानो॒ हरि॑तो॒ हरि॑णी॒रा वि॑वेश ॥
स्वर सहित पद पाठति॒स्र: । ह॒ । प्र॒ऽजा: । अ॒ति॒ऽआ॒यम् । आ॒य॒न् । नि । अ॒न्या: । अ॒र्कम् । अ॒भित॑: । अ॒वि॒श॒न्त॒ । बृ॒हन् । ह॒ । त॒स्थौ॒ । रज॑स: । वि॒ऽमान॑: । हरि॑त: । हरि॑णी: । आ । वि॒वे॒श॒ ॥८.३॥
स्वर रहित मन्त्र
तिस्रो ह प्रजा अत्यायमायन्न्यन्या अर्कमभितोऽविशन्त। बृहन्ह तस्थौ रजसो विमानो हरितो हरिणीरा विवेश ॥
स्वर रहित पद पाठतिस्र: । ह । प्रऽजा: । अतिऽआयम् । आयन् । नि । अन्या: । अर्कम् । अभित: । अविशन्त । बृहन् । ह । तस्थौ । रजस: । विऽमान: । हरित: । हरिणी: । आ । विवेश ॥८.३॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(तिस्रः) उच्चनीचमध्यप्रकारेण त्रिसंख्याकाः (ह) एव (प्रजाः) उत्पन्नपदार्थाः (अत्यायम्) सर्वधातुभ्य इन्। उ० ४।११८। अत सातत्यगमने-इन्+आङ्+या गतौ−ड। अतिश्च आयश्च। स नपुंसकम्। पा० २।४।१७। इति समाहारे नुपंसकम्। नित्यगमनागमने (आयन्) इण् गतौ-लङ्। प्राप्नुवन् (अन्याः) कारणरूपाः पदार्थाः (अर्कम्) अर्चनीयं परमात्मानम् (अभि) अभितः (नि अविशन्त) तस्थुः (बृहन्) महान् (ह) एव (तस्थौ) (रजसः) लोकस्य (विमानः) विविधं मानकर्ता। विमानतुल्याधारः (हरितः) हृश्याभ्यामितन्। उ० ३।९३। हृञ् नाशने-इतन्। दुःखहरः। हरिः। परमेश्वरः (हरिणीः) वर्णादनुदात्तात्तोपधात्तो नः। पा० ४।१।३९। इति बाहुलकाद् ङीब्रत्वे। हरितो दिङ्नाम-निघ० १।६। दिशाः (आ) समन्तात् (विवेश) प्रविष्टवान् ॥
इस भाष्य को एडिट करें