Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 5
    सूक्त - कुत्सः देवता - आत्मा छन्दः - भुरिगनुष्टुप् सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त

    इ॒दं स॑वित॒र्वि जा॑नीहि॒ षड्य॒मा एक॑ एक॒जः। तस्मि॑न्हापि॒त्वमि॑च्छन्ते॒ य ए॑षा॒मेक॑ एक॒जः ॥

    स्वर सहित पद पाठ

    इ॒दम् । स॒वि॒त॒: । वि । जा॒नी॒हि॒ । षट् । य॒मा: । एक॑: । ए॒क॒ऽज: । तस्मि॑न् । ह॒ । अ॒पिऽत्वम् । इ॒च्छ॒न्ते॒ । य: । ए॒षा॒म् । एक॑: । ए॒क॒ऽज: ॥८.५॥


    स्वर रहित मन्त्र

    इदं सवितर्वि जानीहि षड्यमा एक एकजः। तस्मिन्हापित्वमिच्छन्ते य एषामेक एकजः ॥

    स्वर रहित पद पाठ

    इदम् । सवित: । वि । जानीहि । षट् । यमा: । एक: । एकऽज: । तस्मिन् । ह । अपिऽत्वम् । इच्छन्ते । य: । एषाम् । एक: । एकऽज: ॥८.५॥

    अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 5

    टिप्पणीः - ५−(इद्रम्) वाक्यम् (सवितः) ऐश्वर्यवन् विद्वन् (वि) विशेषेण (जानीहि) (षट्) (यमाः) पञ्चज्ञानेन्द्रियाणि षष्ठं मनः (एकः) जीवात्मा (एकजः) एक एव जातः (तस्मिन्) जीवात्मनि (ह) एव (अपित्वम्) इणजादिभ्यः। वा० पा० ३।३।१०८। आप्लृ व्याप्तौ-इण्। छान्दसो ह्रस्वः। आपित्वम्। बन्धुत्वम् (इच्छन्ते) कामयन्ते (यः) जीवात्मा (एषाम्) यमानां मध्ये। अन्यत् पूर्ववत् ॥

    इस भाष्य को एडिट करें
    Top