Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 20
    सूक्त - कुत्सः देवता - आत्मा छन्दः - अनुष्टुप् सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त

    यो वै ते वि॒द्याद॒रणी॒ याभ्यां॑ निर्म॒थ्यते॒ वसु॑। स वि॒द्वाञ्ज्ये॒ष्ठं म॑न्येत॒ स वि॑द्या॒द्ब्राह्म॑णं म॒हत् ॥

    स्वर सहित पद पाठ

    य: । वै । ते इति॑ । वि॒द्यात् । अ॒रणी॒ इति॑ । याभ्या॑म् । नि॒:ऽम॒थ्यते॑ । वसु॑ । स: । वि॒द्वान् । ज्ये॒ष्ठम् । म॒न्ये॒त॒ । स: । वि॒द्या॒त् । ब्राह्म॑णम् । म॒हत् ॥८.२०॥


    स्वर रहित मन्त्र

    यो वै ते विद्यादरणी याभ्यां निर्मथ्यते वसु। स विद्वाञ्ज्येष्ठं मन्येत स विद्याद्ब्राह्मणं महत् ॥

    स्वर रहित पद पाठ

    य: । वै । ते इति । विद्यात् । अरणी इति । याभ्याम् । नि:ऽमथ्यते । वसु । स: । विद्वान् । ज्येष्ठम् । मन्येत । स: । विद्यात् । ब्राह्मणम् । महत् ॥८.२०॥

    अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 20

    टिप्पणीः - २०−(यः) विद्वान् (वै) निश्चयेन (ते) उभे (विद्यात्) जानीयात् (अरणी) अर्त्तिसृधृ०। उ० २।१०२। ऋ गतौ−अनि। अरणी प्रत्यृत एने अग्निः समरणाज्जायत इति वा-निरु० ५।१०। अग्न्युत्पत्तये मथनी द्वे दारुणी (याभ्याम्) अरणिभ्याम् (निर्मथ्यते) मथनेन निःसार्यते (वसु) विभक्तेर्लुक्। वसुः। अग्निः (सः) (विद्वान्) प्राज्ञः (ज्येष्ठम्) महत्तमं ब्रह्म [मन्येत] जानीयात् (सः) (विद्यात्) [ब्राह्मणम्] ब्रह्मणः परमेश्वराज् जातं विज्ञानम् (महत्) पूजनीयम् ॥

    इस भाष्य को एडिट करें
    Top