Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 39
    सूक्त - कुत्सः देवता - आत्मा छन्दः - बृहतीगर्भा त्रिष्टुप् सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त

    यद॑न्त॒रा द्यावा॑पृथि॒वी अ॒ग्निरैत्प्र॒दह॑न्विश्वदा॒व्यः। यत्राति॑ष्ठ॒न्नेक॑पत्नीः प॒रस्ता॒त्क्वेवासीन्मात॒रिश्वा॑ त॒दानी॑म् ॥

    स्वर सहित पद पाठ

    यत् । अ॒न्त॒रा । द्या॑वाथि॒वी इति॑ । अ॒ग्नि: । ऐत् । प्र॒ऽदह॑न् । वि॒श्व॒ऽदा॒व्य᳡:। यत्र॑ । अति॑ष्ठन् । एक॑ऽपत्नी: । प॒रस्ता॑त् । क्व᳡ऽइव । आ॒सी॒त् । मा॒त॒रिश्वा॑ । त॒दानी॑म् ॥८.३९॥


    स्वर रहित मन्त्र

    यदन्तरा द्यावापृथिवी अग्निरैत्प्रदहन्विश्वदाव्यः। यत्रातिष्ठन्नेकपत्नीः परस्तात्क्वेवासीन्मातरिश्वा तदानीम् ॥

    स्वर रहित पद पाठ

    यत् । अन्तरा । द्यावाथिवी इति । अग्नि: । ऐत् । प्रऽदहन् । विश्वऽदाव्य:। यत्र । अतिष्ठन् । एकऽपत्नी: । परस्तात् । क्वऽइव । आसीत् । मातरिश्वा । तदानीम् ॥८.३९॥

    अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 39

    टिप्पणीः - ३९−(यत्) यदा (अन्तरा) मध्ये (द्यावापृथिवी) सूर्यभूलोकौ (अग्निः) अग्नितत्त्वम् (ऐत्) अगच्छत् (प्रदहन्) दहनं कुर्वन् (विश्वदाव्यः) विश्व+टुदु उपतापे-ण्यत् कर्तरि। सर्वदाहकः (यत्र) द्यावापृथिव्योर्मध्ये (अतिष्ठन्) (एकपक्षी) नित्यं सपत्न्यादिषु। पा० ४।१।३५। एकपति ङीप् नुक् च। एकः सूर्यः पतिः पालकः स्वामी वा यासां ताः पूर्वादिदिशाः (परस्तात्) दूरदेशे (क्व) कुत्र (इव) एव (आसीत्) (मातरिश्वा) अ० ५।१०।८। मातरि मानकर्तरि आकाशे गमनशीलो वायुः सूत्रात्मा वा (तदानीम्) ॥

    इस भाष्य को एडिट करें
    Top