अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 44
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - त्रिष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
अ॑का॒मो धीरो॑ अ॒मृतः॑ स्वयं॒भू रसे॑न तृ॒प्तो न कुत॑श्च॒नोनः॑। तमे॒व वि॒द्वान्न बि॑भाय मृ॒त्योरा॒त्मानं॒ धीर॑म॒जरं॒ युवा॑नम् ॥
स्वर सहित पद पाठअ॒का॒म: । धीर॑: । अ॒मृत॑: । स्व॒य॒म्ऽभू: । रसे॑न । तृ॒प्त: । न । कुत॑:। च॒न । ऊन॑: । तम् । ए॒व । वि॒द्वान् । न । बि॒भा॒य॒ । मृ॒त्यो: । आ॒त्मान॑म् । धीर॑म् । अ॒जर॑म् । युवा॑नम् ॥८.४४॥
स्वर रहित मन्त्र
अकामो धीरो अमृतः स्वयंभू रसेन तृप्तो न कुतश्चनोनः। तमेव विद्वान्न बिभाय मृत्योरात्मानं धीरमजरं युवानम् ॥
स्वर रहित पद पाठअकाम: । धीर: । अमृत: । स्वयम्ऽभू: । रसेन । तृप्त: । न । कुत:। चन । ऊन: । तम् । एव । विद्वान् । न । बिभाय । मृत्यो: । आत्मानम् । धीरम् । अजरम् । युवानम् ॥८.४४॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 44
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४४−(अकामः) निष्कामः। स्वप्रयोजनत्यागी (धीरः) अ० २।३५।३। धीरो धीमान्-निरु० ३।१२। धीराः प्रज्ञावन्तो ध्यानवन्तः-निरु० ४।१०। धैर्यवान्। मेधावी (अमृतः) अमरः (स्वयम्भूः) स्वयम्+भू-क्विप्। स्वयं वर्तमानः। स्वयमुत्पन्नः (रसेन) वीर्येण। पराक्रमेण (तृप्तः) सन्तुष्टः। परिपूर्णः (न) निषेधे (कुतः) (चन) अपि (ऊनः) हीनः (तम्) (एव) (विद्वान्) जानन् पुरुषः (न) निषेधे (बिभाय) भयं प्राप (मृत्योः) मरणात् (आत्मानम्) परमात्मानम् (धीरम्) धीमन्तम् (अजरम्) अक्षयम् (युवानम्) महाबलिनम् ॥
इस भाष्य को एडिट करें