अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 25
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - अनुष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
बाला॒देक॑मणीय॒स्कमु॒तैकं॒ नेव॑ दृश्यते। ततः॒ परि॑ष्वजीयसी दे॒वता॒ सा मम॑ प्रि॒या ॥
स्वर सहित पद पाठबाला॑त् । एक॑म् । अ॒णी॒य॒:ऽकम् । उ॒त । एक॑म् । नऽइ॑व । दृ॒श्य॒ते॒ । तत॑: । परि॑ऽस्वजीयसी । दे॒वता॑ । सा । मम॑ । प्रि॒या ॥८.२५॥
स्वर रहित मन्त्र
बालादेकमणीयस्कमुतैकं नेव दृश्यते। ततः परिष्वजीयसी देवता सा मम प्रिया ॥
स्वर रहित पद पाठबालात् । एकम् । अणीय:ऽकम् । उत । एकम् । नऽइव । दृश्यते । तत: । परिऽस्वजीयसी । देवता । सा । मम । प्रिया ॥८.२५॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 25
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २५−(बालात्) केशात् (एकम्) वस्तुमात्रम् (अणीयस्कम्) अनुतरम् (उत) अपि (एकम्) (नेव) इव अवधारणे। नैव (दृश्यते) अवलोक्यते (ततः) तस्मात् सूक्ष्मवस्तुसकाशात् (परिष्वजीयसी) परि+ष्वञ्ज आलिङ्गने−तृच्, ईयसुन्, ङीप्। तुरिष्ठेमेयःसु। पा० ६।४।१५४। तृचो लोपः। अधिकतरा परिष्वङ्क्त्री। आलिङ्गनशीला (देवता) देवः परमात्मा (सा) (मम) (प्रिया) हिता ॥
इस भाष्य को एडिट करें