Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 34
    सूक्त - कुत्सः देवता - आत्मा छन्दः - अनुष्टुप् सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त

    यत्र॑ दे॒वाश्च॑ मनु॒ष्याश्चा॒रा नाभा॑विव श्रि॒ताः। अ॒पां त्वा॒ पुष्पं॑ पृच्छामि॒ यत्र॒ तन्मा॒यया॑ हि॒तम् ॥

    स्वर सहित पद पाठ

    यत्र॑ । दे॒वा: । च॒ । म॒नु॒ष्या᳡: । च॒ । अ॒रा: । नाभौ॑ऽइव । श्रि॒ता: । अ॒पाम् । त्वा॒ । पुष्प॑म् । पृ॒च्छा॒मि॒ । यत्र॑ । तत् । मा॒यया॑ । हि॒तम् ॥८.३४॥


    स्वर रहित मन्त्र

    यत्र देवाश्च मनुष्याश्चारा नाभाविव श्रिताः। अपां त्वा पुष्पं पृच्छामि यत्र तन्मायया हितम् ॥

    स्वर रहित पद पाठ

    यत्र । देवा: । च । मनुष्या: । च । अरा: । नाभौऽइव । श्रिता: । अपाम् । त्वा । पुष्पम् । पृच्छामि । यत्र । तत् । मायया । हितम् ॥८.३४॥

    अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 34

    टिप्पणीः - ३४−(यत्र) यस्मिन् पुष्पे (देवाः) दिव्यलोकाः पदार्था वा (च) (मनुष्याः) (च) (अराः) चक्रस्य नाभिनेम्योर्मध्यस्थानि काष्ठानि (नाभौ) चक्रमध्ये (इव) यथा (श्रिताः) स्थिताः (अपाम्) आपः=व्यापिकास्तन्मात्राः-दयानन्दभाष्ये, यजु० २७।२५। व्यापिकानां तन्मात्राणाम् (त्वा) विद्वांसम् (पुष्पम्) पुष्प विकाशे-अच्। विकाशम्। प्रादुर्भावम् (पृच्छामि) अहं जिज्ञासे (यत्र) यस्मिन् पुष्पे (तत्) प्रसिद्धं ब्रह्म (मायया) प्रज्ञया निघ० ३।९। (हितम्) धृतम् ॥

    इस भाष्य को एडिट करें
    Top