अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 31
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - अनुष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
अवि॒र्वै नाम॑ दे॒वत॒र्तेना॑स्ते॒ परी॑वृता। तस्या॑ रू॒पेणे॒मे वृ॒क्षा हरि॑ता॒ हरि॑तस्रजः ॥
स्वर सहित पद पाठअवि॑: । वै । नाम॑ । दे॒वता॑ । ऋ॒तेन॑ । आ॒स्ते॒ । परि॑ऽवृता । तस्या॑: । रू॒पेण॑ । इ॒मे । वृ॒क्षा: । हरि॑ता: । हरि॑तऽस्रज: ॥८.३१॥
स्वर रहित मन्त्र
अविर्वै नाम देवतर्तेनास्ते परीवृता। तस्या रूपेणेमे वृक्षा हरिता हरितस्रजः ॥
स्वर रहित पद पाठअवि: । वै । नाम । देवता । ऋतेन । आस्ते । परिऽवृता । तस्या: । रूपेण । इमे । वृक्षा: । हरिता: । हरितऽस्रज: ॥८.३१॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 31
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३१−(अविः) सर्वधातुभ्य इन्। उ० ४।११८। अव रक्षणादिषु-इन्। रक्षिका (वै) एव (नाम) संज्ञा (देवता) दिव्यगुणा शक्तिः परमेश्वरः (ऋतेन) सत्यज्ञानेन (आस्ते) तिष्ठति (परिवृता) आच्छादिता (तस्याः) देवतायाः (रूपेण) स्वभावेन (इमे) दृश्यमानाः (वृक्षाः) तरवः (हरिताः) हरितवर्णाः (हरितस्रजः) हरिता कपिलद्राक्षा-इति शब्दकल्पद्रुमः, हरित एव हरिताः। द्राक्षावत् फलानां स्रजो मालाः सन्ति येषां ते ॥
इस भाष्य को एडिट करें