अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 30
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
ए॒षा स॒नत्नी॒ सन॑मे॒व जा॒तैषा पु॑रा॒णी परि॒ सर्वं॑ बभूव। म॒ही दे॒व्युषसो॑ विभा॒ती सैके॑नैकेन मिष॒ता वि च॑ष्टे ॥
स्वर सहित पद पाठए॒षा । स॒नत्नी॑ । सन॑म् । ए॒व । जा॒ता । ए॒षा । पु॒रा॒णी । परि॑ । सर्व॑म् । ब॒भू॒व॒ । म॒ही । दे॒वी । उ॒षस॑: । वि॒ऽभा॒ती । सा । एके॑नऽएकेन । मि॒ष॒ता । वि । च॒ष्टे॒ ॥८.३०॥
स्वर रहित मन्त्र
एषा सनत्नी सनमेव जातैषा पुराणी परि सर्वं बभूव। मही देव्युषसो विभाती सैकेनैकेन मिषता वि चष्टे ॥
स्वर रहित पद पाठएषा । सनत्नी । सनम् । एव । जाता । एषा । पुराणी । परि । सर्वम् । बभूव । मही । देवी । उषस: । विऽभाती । सा । एकेनऽएकेन । मिषता । वि । चष्टे ॥८.३०॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 30
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३०−(एषा) प्रसिद्धा (सनत्नी) वर्तमाने पृषद्बृहन्महज्०। उ० २।८४। षण संभक्तौ-अति+णीञ् प्रापणे ड, ङीप्। सनतां भक्तानां नेत्री (सनम्) सदा (एव) (जाता) प्रसिद्धा (एषा) (पुराणी) अ० १०।७।२६। पुराण ङीप्। पुरातनी (सर्वम्) जगत् (परि बभूव) व्याप (मही) महती (देवी) दिव्यगुणा (उषसः) प्रभातवेलाः (विभाती) अन्तर्गतण्यर्थः। विभापयन्ती। प्रकाशयन्ती (सा) शक्तिः (एकेनैकेन) प्रत्येकेन (मिषता) वर्तमाने पृषद्बृहन्महज्०। उ० २।८४। मिष स्पर्धायाम्-अति। निमिषेण। चक्षुर्मुद्रेण (वि चष्टे) विशेषेण पश्यति ॥
इस भाष्य को एडिट करें