Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 19
    सूक्त - कुत्सः देवता - आत्मा छन्दः - अनुष्टुप् सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त

    स॒त्येनो॒र्ध्वस्त॑पति॒ ब्रह्म॑णा॒र्वाङ्वि प॑श्यति। प्रा॒णेन॑ ति॒र्यङ्प्राण॑ति॒ यस्मि॑ञ्ज्ये॒ष्ठमधि॑ श्रि॒तम् ॥

    स्वर सहित पद पाठ

    स॒त्येन॑ । ऊ॒र्ध्व: । त॒प॒ति॒ । ब्रह्म॑णा । अ॒र्वाङ् । वि । प॒श्य॒ति॒ । प्रा॒णेन॑ । ति॒र्यङ् । प्र । अ॒न॒ति॒ । यस्मि॑न् । ज्ये॒ष्ठम् । अधि॑ । श्रि॒तम् ॥८.१९॥


    स्वर रहित मन्त्र

    सत्येनोर्ध्वस्तपति ब्रह्मणार्वाङ्वि पश्यति। प्राणेन तिर्यङ्प्राणति यस्मिञ्ज्येष्ठमधि श्रितम् ॥

    स्वर रहित पद पाठ

    सत्येन । ऊर्ध्व: । तपति । ब्रह्मणा । अर्वाङ् । वि । पश्यति । प्राणेन । तिर्यङ् । प्र । अनति । यस्मिन् । ज्येष्ठम् । अधि । श्रितम् ॥८.१९॥

    अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 19

    टिप्पणीः - १९−(सत्येन) सद्भ्यो हितम् सत्-यत्। यथार्थकथनं यच्च सर्वलोकसुखप्रदम्। तत् सत्यमिति विज्ञेयमसत्यं तद्विपर्ययम् १। यथार्थकर्मणां (ऊर्ध्वः) उपरिस्थः (तपति) ईष्टे। प्रतापी भवति (ब्रह्मणा) वेदज्ञानेन (अर्वाङ्) अवरदेशे भवन् (वि) विविधम् (पश्यति) (प्राणेन) आत्मबलेन (तिर्यङ्) इतस्ततो देशे भवन् (प्र) प्रकर्षेण (अनति) अनिति। जीवति (यस्मिन्) पुरुषे (ज्येष्ठम्) महत्तमम् ब्रह्म (अधि श्रितम्) प्रतिष्ठितम् ॥

    इस भाष्य को एडिट करें
    Top