अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 36
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - त्रिष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
इ॒मामे॑षां पृथि॒वीं वस्त॒ एको॒ऽन्तरि॑क्षं॒ पर्येको॑ बभूव। दिव॑मेषां ददते॒ यो वि॑ध॒र्ता विश्वा॒ आशाः॒ प्रति॑ रक्ष॒न्त्येके॑ ॥
स्वर सहित पद पाठइ॒माम् । ए॒षा॒म् । पृ॒थि॒वीम् । वस्ते॑ । एक॑: । अ॒न्तरि॑क्षम् । परि॑ । एक॑: । ब॒भू॒व॒ । दिव॑म् । ए॒षा॒म् । द॒द॒ते॒ । य: । वि॒ऽध॒र्ता । विश्वा॑: । आशा॑: । प्रति॑ । र॒क्ष॒न्ति॒ । एके॑ ॥८.३६॥
स्वर रहित मन्त्र
इमामेषां पृथिवीं वस्त एकोऽन्तरिक्षं पर्येको बभूव। दिवमेषां ददते यो विधर्ता विश्वा आशाः प्रति रक्षन्त्येके ॥
स्वर रहित पद पाठइमाम् । एषाम् । पृथिवीम् । वस्ते । एक: । अन्तरिक्षम् । परि । एक: । बभूव । दिवम् । एषाम् । ददते । य: । विऽधर्ता । विश्वा: । आशा: । प्रति । रक्षन्ति । एके ॥८.३६॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 36
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३६−(इमाम्) दृश्यमानाम् (एषाम्) दिव्यपदार्थानां मध्ये (वस्ते) आच्छादयति (एकः) अग्निर्यथा (अन्तरिक्षम्) (एकः) वायुर्यथा (परि बभूव) आच्छादितवान् (दिवम्) प्रकाशम् (एषाम्) (ददते) दद दाने। ददाति (यः) (विधर्ता) विविधं धारकः सूर्यो यथा (आशाः) पूर्वादयो दिशाः (प्रति) लक्ष्यीकृत्य (रक्षन्ति) (एके) अन्ये। चन्द्रनक्षत्रादयः ॥
इस भाष्य को एडिट करें