Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 28
    सूक्त - कुत्सः देवता - आत्मा छन्दः - त्रिष्टुप् सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त

    उ॒तैषां॑ पि॒तोत वा॑ पु॒त्र ए॑षामु॒तैषां॑ ज्ये॒ष्ठ उ॒त वा॑ कनि॒ष्ठः। एको॑ ह दे॒वो मन॑सि॒ प्रवि॑ष्टः प्रथ॒मो जा॒तः स उ॒ गर्भे॑ अ॒न्तः ॥

    स्वर सहित पद पाठ

    उ॒त । ए॒षा॒म् । पि॒ता । उ॒त । वा॒ । पु॒त्र: । ए॒षा॒म् । उ॒त । ए॒षा॒म् । ज्ये॒ष्ठ: । उ॒त । वा॒ । क॒नि॒ष्ठ: । एक॑: । ह॒ । दे॒व: । मन॑सि । प्रऽवि॑ष्ट: । प्र॒थ॒म: । जा॒त: । स: । ऊं॒ इति॑ । गर्भे॑ । अ॒न्त: ॥८.२८॥


    स्वर रहित मन्त्र

    उतैषां पितोत वा पुत्र एषामुतैषां ज्येष्ठ उत वा कनिष्ठः। एको ह देवो मनसि प्रविष्टः प्रथमो जातः स उ गर्भे अन्तः ॥

    स्वर रहित पद पाठ

    उत । एषाम् । पिता । उत । वा । पुत्र: । एषाम् । उत । एषाम् । ज्येष्ठ: । उत । वा । कनिष्ठ: । एक: । ह । देव: । मनसि । प्रऽविष्ट: । प्रथम: । जात: । स: । ऊं इति । गर्भे । अन्त: ॥८.२८॥

    अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 28

    टिप्पणीः - २८−(उत) अथवा (एषाम्) समीपवर्तिनाम् (पिता) जनकः (पुत्रः) तनयः (एषाम्) (उत) (एषाम्) (ज्येष्ठः) वृद्ध-इष्ठन्। अग्रजो भ्राता (उत वा) (कनिष्ठः) युवाल्पयोः कनन्यतरस्याम्। पा० ५।३।६४। युवन् अल्प वा-इष्ठनि कनादेशः। अनुजो भ्राता (एकः) अद्वितीयः (ह) एव (देवः) सर्वव्यापकः परमात्मा (मनसि) ज्ञाने (प्रविष्टः) (प्रथमः) आदिमः (जातः) प्रसिद्धः (सः) (उ) एव (गर्भे) अन्तःकरणरूपे गर्भाशये (अन्तः) मध्ये ॥

    इस भाष्य को एडिट करें
    Top