Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 2
    सूक्त - कुत्सः देवता - आत्मा छन्दः - बृहतीगर्भानुष्टुप् सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त

    स्क॒म्भेने॒मे विष्ट॑भिते॒ द्यौश्च॒ भूमि॑श्च तिष्ठतः। स्क॒म्भ इ॒दं सर्व॑मात्म॒न्वद्यत्प्रा॒णन्नि॑मि॒षच्च॒ यत् ॥

    स्वर सहित पद पाठ

    स्क॒म्भेन॑ । इ॒मे इति॑ । विस्त॑भिते॒ इति॒ विऽस्त॑भिते । द्यौ: । च॒ । भूमि॑: । च॒ । ति॒ष्ठ॒त॒: । स्क॒म्भे । इ॒दम् । सर्व॑म् । आ॒त्म॒न्ऽवत् । यत् । प्रा॒णत् । नि॒ऽमि॒षत् । च॒ । यत् ॥८.२॥


    स्वर रहित मन्त्र

    स्कम्भेनेमे विष्टभिते द्यौश्च भूमिश्च तिष्ठतः। स्कम्भ इदं सर्वमात्मन्वद्यत्प्राणन्निमिषच्च यत् ॥

    स्वर रहित पद पाठ

    स्कम्भेन । इमे इति । विस्तभिते इति विऽस्तभिते । द्यौ: । च । भूमि: । च । तिष्ठत: । स्कम्भे । इदम् । सर्वम् । आत्मन्ऽवत् । यत् । प्राणत् । निऽमिषत् । च । यत् ॥८.२॥

    अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 2

    टिप्पणीः - २−(स्कम्भेन) अ० १०।७।२। सर्वधारकेण परमेश्वरेण (इमे) दृश्यमाने (विष्टभिते) विविधं धारिते (द्यौः) सूर्यः) (च च) (भूमि) (तिष्ठतः) वर्तेते (स्कम्भे) (इदम्) (सर्वम्) (आत्मन्वत्) अ० ४।१०।७। आत्मना जीवेन युक्तं जगत् (यत्) (प्राणत्) श्वसत् (निमिषत्) निमेषणं चक्षुर्मुद्रणं कुर्वत् (च) (यत्) ॥

    इस भाष्य को एडिट करें
    Top