अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 12
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - पुरोबृहती त्रिष्टुब्गर्भार्षी पङ्क्तिः
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
अ॑न॒न्तं वित॑तं पुरु॒त्रान॒न्तमन्त॑वच्चा॒ सम॑न्ते। ते ना॑कपा॒लश्च॑रति विचि॒न्वन्वि॒द्वान्भू॒तमु॒त भव्य॑मस्य ॥
स्वर सहित पद पाठअ॒न॒न्तम् । विऽत॑तम् । पु॒रु॒ऽत्रा । अ॒न॒न्तम् । अन्त॑ऽवत् । च॒ । सम॑न्ते॒ इति॑ सम्ऽअ॑न्ते । ते इति॑ । ना॒क॒ऽपा॒ल: । च॒र॒ति॒ । वि॒ऽचि॒न्वन् । वि॒द्वान् । भू॒तम् । उ॒त । भव्य॑म् । अ॒स्य॒ ॥८.१२॥
स्वर रहित मन्त्र
अनन्तं विततं पुरुत्रानन्तमन्तवच्चा समन्ते। ते नाकपालश्चरति विचिन्वन्विद्वान्भूतमुत भव्यमस्य ॥
स्वर रहित पद पाठअनन्तम् । विऽततम् । पुरुऽत्रा । अनन्तम् । अन्तऽवत् । च । समन्ते इति सम्ऽअन्ते । ते इति । नाकऽपाल: । चरति । विऽचिन्वन् । विद्वान् । भूतम् । उत । भव्यम् । अस्य ॥८.१२॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 12
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १२−(अनन्तम्) अन्तरहितम् (विततम्) विस्तृतं ब्रह्म (पुरुत्रा) बहुविधम् (अनन्तम्) अन्तरहितं कारणम् (अन्तवत्) सान्तं कार्यम् (च) (समन्ते) परस्परसीमायुक्ते (ते) द्वे (नाकपालः) मोक्षसुखस्य स्वामी (चरति) गच्छति (विचिन्वन्) पृथक् पृथक् कुर्वन् (विद्वान्) जानन् (भूतम्) गतकालम् (उत) अपि (भव्यम्) अनागतकालम् (अस्य) जगतः ॥
इस भाष्य को एडिट करें