अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 23
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
वि॒द्याश्च॒ वा अवि॑द्याश्च॒ यच्चा॒न्यदु॑पदे॒श्यम्। शरी॑रं॒ ब्रह्म॒ प्रावि॑श॒दृचः॒ सामाथो॒ यजुः॑ ॥
स्वर सहित पद पाठवि॒द्या: । च॒ । वै । अवि॑द्या: । च॒ । यत् । च॒ । अ॒न्यत् । उ॒प॒ऽदे॒श्य᳡म् । शरी॑रम् । ब्रह्म॑ । प्र । अ॒वि॒श॒त् । ऋच॑: । साम॑ । अथो॒ इति॑ । यजु॑: ॥१०.२३॥
स्वर रहित मन्त्र
विद्याश्च वा अविद्याश्च यच्चान्यदुपदेश्यम्। शरीरं ब्रह्म प्राविशदृचः सामाथो यजुः ॥
स्वर रहित पद पाठविद्या: । च । वै । अविद्या: । च । यत् । च । अन्यत् । उपऽदेश्यम् । शरीरम् । ब्रह्म । प्र । अविशत् । ऋच: । साम । अथो इति । यजु: ॥१०.२३॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 23
विषय - मन्यु रूप परमेश्वर का वर्णन।
भावार्थ -
(विद्याः च) समस्त विद्याएं (वा) और (अविद्याः च) समस्त अविद्याएं अर्थात् कर्म जाल और (यत् च) जो कुछ भी (उपदेश्यम्) उपदेश करने योग्य है और (ऋचः) ऋग्वेद (साम अथो यजुः) सामवेद और यजुर्वेद और (ब्रह्म) ब्रह्म वेद, अथर्ववेद ये सब (शरीरं प्राविशन्) इस पुरुष शरीर में प्रविष्ट हुए।
टिप्पणी -
‘शरीरं सर्वे प्राविशन्’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - कौरुपथिर्ऋषिः। अध्यात्मं मन्युर्देवता। १-३२, ३४ अनुष्टुभः, ३३ पथ्यापंक्तिः। चतुश्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें