Loading...

1120 परिणाम मिले!

  • इमा गिरऽआदित्येभ्यो घृतस्नूः सनाद्राजभ्यो जुह्वा जुहोमि । शृणोतु मित्रोऽअर्यमा भगो नस्तुविजातो वरुणो दक्षो अँशः ॥ - Yajurveda/34/54
  • इमां च नः पृथिवीं विश्वधाया उप क्षेति हितमित्रो न राजा। पुरः सदः शर्मसदो न वीरा महद्देवानामसुरत्वमेकम्॥ - Rigveda/3/55/21
  • इमा जुषेथां सवना येभिर्हव्यान्यूहथु: । इन्द्राग्नी आ गतं नरा ॥ - Rigveda/8/38/5
  • इमा जुह्वाना युष्मदा नमोभि: प्रति स्तोमं सरस्वति जुषस्व । तव शर्मन्प्रियतमे दधाना उप स्थेयाम शरणं न वृक्षम् ॥ - Rigveda/7/95/5
  • इमां त इन्द्र सुष्टुतिं विप्र इयर्ति धीतिभि: । जामिं पदेव पिप्रतीं प्राध्वरे ॥ - Rigveda/8/12/31
  • इमां ते धियं प्र भरे महो महीमस्य स्तोत्रे धिषणा यत्त आनजे। तमुत्सवे च प्रसवे च सासहिमिन्द्रं देवास: शवसामदन्ननु ॥ - Rigveda/1/102/1
  • इमां ते वाचं वसूयन्त आयवो रथं न धीर: स्वपा अतक्षिषुः सुम्नाय त्वामतक्षिषुः। शुम्भन्तो जेन्यं यथा वाजेषु विप्र वाजिनम्। अत्यमिव शवसे सातये धना विश्वा धनानि सातये ॥ - Rigveda/1/130/6
  • इमा ते वाजिन्नवमार्जनानीमा शफानाँ सनितुर्निधाना । अत्रा ते भद्रा रशनाऽअपश्यमृतस्य याऽअभिरक्षन्ति गोपाः ॥ - Yajurveda/29/16
  • इमा ते वाजिन्नवमार्जनानीमा शफानां सनितुर्निधाना। अत्रा ते भद्रा रशना अपश्यमृतस्य या अभिरक्षन्ति गोपाः ॥ - Rigveda/1/163/5
  • इमां त्वमिन्द्र मीढ्वः सुपुत्रां सुभगां कृणु । दशास्यां पुत्राना धेहि पतिमेकादशं कृधि ॥ - Rigveda/10/85/45
  • इमा धाना घृतस्नुवो हरी इहोपवक्षतः। इन्द्रं सुखतमे रथे॥ - Rigveda/1/16/2
  • इमां धियं शिक्षमाणस्य देव क्रतुं दक्षं वरुण सं शिशाधि । ययाति विश्वा दुरिता तरेम सुतर्माणमधि नावं रुहेम ॥ - Rigveda/8/42/3
  • इमां धियं सप्तशीर्ष्णीं पिता न ऋतप्रजातां बृहतीमविन्दत् । तुरीयं स्विज्जनयद्विश्वजन्योऽयास्य उक्थमिन्द्राय शंसन् ॥ - Rigveda/10/67/1
  • इमां धियं सप्तशीर्ष्णीं पिता न ऋतप्रजातां बृहतीमविन्दत्। तुरीयं स्विज्जनयद्विश्वजन्योऽयास्य उक्थमिन्द्राय शंसन् ॥ - Atharvaveda/20/91/0/1
  • इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं विशन्तु । अनश्रवोऽनमीवाः सुरत्ना आ रोहन्तं जनयो योनिमग्रे ॥ - Rigveda/10/18/7
  • इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं स्पृशन्ताम्। अनश्रवो अनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे ॥ - Atharvaveda/12/2/0/31
  • इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः ॥ - Rigveda/10/157/1
  • इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः। यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह चीक्लृपाति ॥ - Atharvaveda/20/124/0/4
  • इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः। यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह चीक्लृपाति ॥ - Atharvaveda/20/63/0/1
  • इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः ॥१११० - Samveda/1110
  • इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः ॥४५२॥ - Samveda/452
  • इमा नु कम्भुवना सीषधामेन्द्रश्च विश्वे च देवाः । आदित्यैरिद्न्रः सगणो मरुद्भिरस्मभ्यम्भेषजा करत् । यज्ञञ्च नस्तन्वञ्च प्रजाञ्चादित्यैरिन्द्रः सह सीषधाति ॥ - Yajurveda/25/46
  • इमां प्रत्नाय सुष्टुतिं नवीयसीं वोचेयमस्मा उशते शृणोतु नः । भूया अन्तरा हृद्यस्य निस्पृशे जायेव पत्य उशती सुवासा: ॥ - Rigveda/10/91/13
  • इमा ब्रह्म बृहद्दिवः कृणवदिन्द्राय शूषमग्नियः स्वर्षाः। महो गोत्रस्य क्षयति स्वराजा तुरश्चिद्विश्वमर्णवत्तपस्वान् ॥ - Atharvaveda/20/107/0/11
  • इमा ब्रह्म बृहद्दिवः कृणवदिन्द्राय शूषमग्रियः स्वर्षाः। महो गोत्रस्य क्षयति स्वराजा तुरश्चिद्विश्वमर्णवत्तपस्वान् ॥ - Atharvaveda/5/2/0/8
  • इमा ब्रह्म बृहद्दिवो विवक्तीन्द्राय शूषमग्रियः स्वर्षाः । महो गोत्रस्य क्षयति स्वराजो दुरश्च विश्वा अवृणोदप स्वाः ॥ - Rigveda/10/120/8
  • इमा ब्रह्म ब्रह्मवाहः क्रियन्त आ बर्हिः सीद। वीहि शूर पुरोडाशम् ॥ - Atharvaveda/20/23/0/3
  • इमा ब्रह्म ब्रह्मवाहः क्रियन्त आ बर्हिः सीद। वीहि शूर पुरोळाशम्॥ - Rigveda/3/41/3
  • इमा ब्रह्म सरस्वति जुषस्व वाजिनीवति। या ते मन्म गृत्समदा ऋतावरि प्रिया देवेषु जुह्वति॥ - Rigveda/2/41/18
  • इमा ब्रह्माणि वर्धनाश्विभ्यां सन्तु शंतमा। या तक्षाम रथाँइवावोचाम बृहन्नमः ॥१०॥ - Rigveda/5/73/10
  • इमा ब्रह्मेन्द्र तुभ्यं शंसि दा नृभ्यो नृणां शूर शव: । तेभिर्भव सक्रतुर्येषु चाकन्नुत त्रायस्व गृणत उत स्तीन् ॥ - Rigveda/10/148/4
  • इमां भूमिं पृथिवीं ब्रह्मचारी भिक्षामा जभार प्रथमो दिवं च। ते कृत्वा समिधावुपास्ते तयोरार्पिता भुवनानि विश्वा ॥ - Atharvaveda/11/5/0/9
  • इमां म इन्द्र सुष्टुतिं जुषस्व प्र सु मामव । उत प्र वर्धया मतिम् ॥ - Rigveda/8/6/32
  • इमां मात्रांमिमीमहे यथापरं न मासातै। शते शरत्सु नो पुरा ॥ - Atharvaveda/18/2/0/38
  • इमां मे अग्ने समिधं जुषस्वेळस्पदे प्रति हर्या घृताचीम् । वर्ष्मन्पृथिव्याः सुदिनत्वे अह्नामूर्ध्वो भव सुक्रतो देवयज्या ॥ - Rigveda/10/70/1
  • इमां मे अग्ने समिधमिमामुपसदं वनेः। इमा ऊ षु श्रुधी गिरः॥ - Rigveda/2/6/1
  • इमां मे मरुतो गिरमिमं स्तोममृभुक्षणः । इमं मे वनता हवम् ॥ - Rigveda/8/7/9
  • इमा मेऽअग्नऽइष्टका धेनवः सन्त्वेका च दश च दश च शतञ्च शतञ्च सहस्रञ्च सहस्रञ्चायुतञ्चायुतञ्च नियुतञ्च नियुतञ्च प्रयुतञ्चार्बुदञ्च न्यर्बुदञ्च समुद्रश्च मध्यञ्चान्तश्च परार्धश्चौता मेऽअग्नऽइष्टका धेनवः सन्त्वमुत्रामुष्मिँल्लोके ॥ - Yajurveda/17/2
  • इमा या देवीः प्रदिशश्चतस्रो वातपत्नीरभि सूर्यो विचष्टे। एवाहं त्वां क्षेत्रियान्निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥ - Atharvaveda/2/10/0/4
  • इमा याः पञ्च प्रदिशो मानवीः पञ्च कृष्टयः। वृष्टे शापं नदीरिवेह स्फातिं समावहान् ॥ उदुत्सं शतधारं सहस्रधारमक्षितम्। एवास्माकेदं धान्यं सहस्रधारमक्षितम् ॥ - Atharvaveda/3/24/0/3
  • इमा या ब्रह्मणस्पते विषुचीर्वात ईरते। सध्रीचीरिन्द्र ताः कृत्वा मह्यं शिवतमास्कृधि ॥ - Atharvaveda/19/8/0/6
  • इमा यास्तिस्रः पृथिवीस्तासां ह भूमिरुत्तमा। तासामधि त्वचो अहं भेषजं समु जग्रभम् ॥ - Atharvaveda/6/21/0/1
  • इमा यास्ते शतं हिराः सहस्रं धमनीरुत। तासां ते सर्वासामहमश्मना बिलमप्यधाम् ॥ - Atharvaveda/7/35/0/2
  • इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः। यथा शमसद्द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम् ॥ - Rigveda/1/114/1
  • इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतीः । यथा शमसद्द्विपदे चतुष्पदे विश्वम्पुष्टङ्ग्रामेऽअस्मिन्ननातुरम् ॥ - Yajurveda/16/48
  • इमा रुद्राय स्थिरधन्वने गिरः क्षिप्रेषवे देवाय स्वधाव्ने। अषाळ्हाय सहमानाय वेधसे तिग्मायुधाय भरता शृणोतु नः ॥१॥ - Rigveda/7/46/1
  • इमां वां मित्रावरुणा सुवृक्तिमिषं न कृण्वे असुरा नवीयः। इनो वामन्यः पदवीरदब्धो जनं च मित्रो यतति ब्रुवाणः ॥२॥ - Rigveda/7/36/2
  • इमां शालां सविता वायुरिन्द्रो बृहस्पतिर्नि मिनोतु प्रजानन्। उक्षन्तूद्ना मरुतो घृतेन भगो नो राजा नि कृषिं तनोतु ॥ - Atharvaveda/3/12/0/4
  • इमां सु पूर्व्यां धियं मधोर्घृतस्य पिप्युषीम् । कण्वा उक्थेन वावृधुः ॥ - Rigveda/8/6/43
  • इमानारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं स्पृशन्ताम्। अनश्रवोअनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे ॥ - Atharvaveda/18/3/0/57
Top