Loading...

2564 परिणाम मिले!

  • यो वृत्राय सिनमत्राभरिष्यत्प्र तं जनित्री विदुष उवाच। पथो रदन्तीरनु जोषमस्मै दिवेदिवे धुनयो यन्त्यर्थम्॥ - Rigveda/2/30/2
  • यो वेतसं हिरण्ययं तिष्ठन्तं सलिले वेद। स वै गुह्यः प्रजापतिः ॥ - Atharvaveda/10/7/0/41
  • यो वेदानडुहो दोहान्सप्तानुपदस्वतः। प्रजां च लोकं चाप्नोति तथा सप्तऋषयो विदुः ॥ - Atharvaveda/4/11/0/9
  • यो वेदिष्ठो अव्यथिष्वश्वावन्तं जरितृभ्य: । वाजं स्तोतृभ्यो गोमन्तम् ॥ - Rigveda/8/2/24
  • यो वेहतं मन्यमानोऽमा च पचते वशाम्। अप्यस्य पुत्रान्पौत्रांश्च याचयते बृहस्पतिः ॥ - Atharvaveda/12/4/0/38
  • यो वै कशायाः सप्त मधूनि वेद मधुमान्भवति। ब्राह्मणश्च राजा च धेनुश्चानड्वांश्च व्रीहिश्च यवश्च मधु सप्तमम् ॥ - Atharvaveda/9/1/0/22
  • यो वै कुर्वन्तं नामर्तुं वेद। कुर्वतींकुर्वतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते। एष वै कुर्वन्नामर्तुर्यदजः पञ्चौदनः। निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना योजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥ - Atharvaveda/9/5/0/32
  • यो वै तां ब्रह्मणो वेदामृतेनावृतां पुरम्। तस्मै ब्रह्म च ब्राह्माश्च चक्षुः प्राणं प्रजां ददुः ॥ - Atharvaveda/10/2/0/29
  • यो वै ते विद्यादरणी याभ्यां निर्मथ्यते वसु। स विद्वाञ्ज्येष्ठं मन्येत स विद्याद्ब्राह्मणं महत् ॥ - Atharvaveda/10/8/0/20
  • यो वै नैदाघं नामर्तुं वेद। एष वै नैदाघो नामर्तुर्यदजः पञ्चौदनः। निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना। योजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥ - Atharvaveda/9/5/0/31
  • यो वै पिन्वन्तं नामर्तुं वेद। पिन्वतींपिन्वतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते। एष वै पिन्वन्नामर्तुर्यदजः पञ्चौदनः। निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना योजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥ - Atharvaveda/9/5/0/34
  • यो वै संयन्तं नामर्तुं वेद। संयतींसंयतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते। एष वै संयन्नामर्तुर्यदजः पञ्चौदनः। निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना योजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥ - Atharvaveda/9/5/0/33
  • यो वो देवा घृतस्नुना हव्येन प्रतिभूषति। तं विश्व उप गच्छथ ॥८॥ - Rigveda/6/52/8
  • यो वो वृताभ्यो अकृणोदु लोकं यो वो मह्या अभिशस्तेरमुञ्चत् । तस्मा इन्द्राय मधुमन्तमूर्मिं देवमादनं प्र हिणोतनापः ॥ - Rigveda/10/30/7
  • यो व्यतीँरफाणयत्सुयुक्ताँ उप दाशुषे । तक्वो नेता तदिद्वपुरुपमा यो अमुच्यत ॥ - Rigveda/8/69/13
  • यो व्यतीँरफाणयत्सुयुक्ताँ उप दाशुषे। तक्वो नेता तदिद्वपुरुपमा यो अमुच्यत ॥ - Atharvaveda/20/92/0/10
  • यो व्यंसं जाहृषाणेन मन्युना यः शम्बरं यो अहन्पिप्रुमव्रतम्। इन्द्रो यः शुष्णमशुषं न्यावृणङ्मरुत्वन्तं सख्याय हवामहे ॥ - Rigveda/1/101/2
  • यो ह वां मधुनो दृतिराहितो रथचर्षणे । तत: पिबतमश्विना ॥ - Rigveda/8/5/19
  • यो ह स्य वां रथिरा वस्त उस्रा रथो युजानः परियाति वर्तिः । तेन न: शं योरुषसो व्युष्टौ न्यश्विना वहतं यज्ञे अस्मिन् ॥ - Rigveda/7/69/5
  • यो हत्वाहिमरिणात्सप्त सिन्धून्यो गा उदाजदपधा बलस्य। यो अश्मनोरन्तरग्निं जजान संवृक्समत्सु स जनास इन्द्रः॥ - Rigveda/2/12/3
  • यो हत्वाहिमरिणात्सप्त सिन्धून्यो गा उदाजदपधा वलस्य। यो अश्मनोरन्तरग्निं जजान संवृक्समत्सु स जनास इन्द्रः ॥ - Atharvaveda/20/34/0/3
  • यो हरिमा जायान्योऽङ्गभेदो विसल्पकः। सर्वं ते यक्ष्ममङ्गेभ्यो बहिर्निर्हन्त्वाञ्जनम् ॥ - Atharvaveda/19/44/0/2
  • यो हव्यान्यैरयता मनुर्हितो देव आसा सुगन्धिना । विवासते वार्याणि स्वध्वरो होता देवो अमर्त्यः ॥ - Rigveda/8/19/24
  • यो होतासीत्प्रथमो देवजुष्टो यं समाञ्जन्नाज्येना वृणानाः । स पतत्रीत्वरं स्था जगद्यच्छ्वात्रमग्निरकृणोज्जातवेदाः ॥ - Rigveda/10/88/4
  • यो३ऽस्मान्द्वेष्टि यं वयं द्विष्मस्तस्य त्वं प्राणेना प्यायस्व। आ वयं प्यासिषीमहि गोभिरश्वैः प्रजया पशुभिर्गृहैर्धनेन ॥ - Atharvaveda/7/81/0/5
  • योगक्षेमं व आदायाहं भूयासमुत्तम आ वो मूर्धानमक्रमीम् । अधस्पदान्म उद्वदत मण्डूका इवोदकान्मण्डूका उदकादिव ॥ - Rigveda/10/166/5
  • योगेयोगे तवस्तरं वाजेवाजे हवामहे । सखाय इन्द्रमूतये ॥१६३॥ - Samveda/163
  • योगेयोगे तवस्तरं वाजेवाजे हवामहे । सखाय इन्द्रमूतये ॥७४३॥ - Samveda/743
  • योगेयोगे तवस्तरं वाजेवाजे हवामहे। सखाय इन्द्रमूतये ॥ - Atharvaveda/19/24/0/7
  • योगेयोगे तवस्तरं वाजेवाजे हवामहे। सखाय इन्द्रमूतये ॥ - Atharvaveda/20/26/0/1
  • योगेयोगे तवस्तरं वाजेवाजे हवामहे। सखाय इन्द्रमूतये॥ - Rigveda/1/30/7
  • योगेयोगे तवस्तरँवाजेवाजे हवामहे । सखायऽइन्द्रमूतये ॥ - Yajurveda/11/14
  • योद्धासि क्रत्वा शवसोत दंसना विश्वा जाताभि मज्मना । आ त्वायमर्क ऊतये ववर्तति यं गोतमा अजीजनन् ॥ - Rigveda/8/88/4
  • योनिमेक आ ससाद द्योतनोऽन्तर्देवेषु मेधिरः ॥ - Rigveda/8/29/2
  • योनिष्ट इन्द्र निषदे अकारि तमा नि षीद स्वानो नार्वा। विमुच्या वयोऽवसायाश्वान्दोषा वस्तोर्वहीयसः प्रपित्वे ॥ - Rigveda/1/104/1
  • योनिष्ट इन्द्र सदने अकारि तमा नृभिः पुरुहूत प्र याहि। असो यथा नोऽविता वृधे च ददो वसूनि ममदश्च सोमैः ॥१॥ - Rigveda/7/24/1
  • योनिष्ट इन्द्र सदने अकारि तमा नृभिः पुरूहूत प्र याहि । असो यथा नोऽविता वृधश्चिद्ददो वसूनि ममदश्च सोमैः ॥३१४॥ - Samveda/314
  • योऽअग्निः कव्यवाहनः पितऋृन्यक्षदृतावृधः । प्रेदु हव्यानि वोचति देवेभ्यश्च पितृभ्यऽआ ॥ - Yajurveda/19/65
  • योऽअस्मभ्यमरातीयाद्यश्च नो द्वेषते जनः । निन्दाद्योऽअस्मान्धिप्साच्च सर्वन्तम्भस्मसा कुरु ॥ - Yajurveda/11/80
  • योऽग्निरग्नेरधियजायत शोकात्पृथिव्याऽउत वा दिवस्परि । येन प्रजा विश्वकर्मा जजान तमग्ने हेडः परि ते वृणक्तु ॥ - Yajurveda/13/45
  • योऽतिथीनां स आहवनीयो यो वेश्मनि स गार्हपत्यो यस्मिन्पचन्ति स दक्षिणाग्निः ॥ - Atharvaveda/9/6/2/13
  • योऽथर्वाणं पितरं देवबन्धुं बृहस्पतिं नमसाव च गच्छात्। त्वं विश्वेषां जनिता यथासः कविर्देवो न दभायत्स्वधावान् ॥ - Atharvaveda/4/1/0/7
  • योऽनाक्ताक्षो अनभ्यक्तो अमणिवो अहिरण्यवः। अब्रह्मा ब्रह्मणः पुत्रस्तोता कल्पेषु संमिता ॥ - Atharvaveda/20/128/0/6
  • योऽवरे वृजने विश्वथा विभुर्महामु रण्वः शवसा ववक्षिथ। स देवो देवान्प्रति पप्रथे पृथु विश्वेदु ता परिभूर्ब्रह्मणस्पतिः॥ - Rigveda/2/24/11
  • योऽस्यदक्षिणः कर्णोऽयं सो अग्निर्योऽस्य सव्यः कर्णोऽयं स पवमानः ॥ - Atharvaveda/15/18/0/3
  • योन्तरिक्षे तिष्ठति विष्टभितोऽयज्वनः प्रमृणन्देवपीयून्। तस्मै नमो दशभिः शक्वरीभिः ॥ - Atharvaveda/11/2/0/23
  • योप्स्वग्निरति तं सृजामि म्रोकं खनिं तनूदूषिम् ॥ - Atharvaveda/16/1/0/7
  • योभियातो निलयते त्वां रुद्र निचिकीर्षति। पश्चादनुप्रयुङ्क्षे तं विद्धस्य पदनीरिव ॥ - Atharvaveda/11/2/0/13
  • योस्मान्द्वेष्टि तमात्मा द्वेष्टु यं वयं द्विष्मः स आत्मानं द्वेष्टु॥ - Atharvaveda/16/7/0/5
  • योस्मान्ब्रह्मणस्पतेऽदेवो अभिमन्यते। सर्वं तं रन्धयासि मे यजमानाय सुन्वते ॥ - Atharvaveda/6/6/0/1
Top