Loading...

2564 परिणाम मिले!

  • यो अद्य स्तेन आयति स संपिष्टो अपायति। पथामपध्वंसेनैत्विन्द्रो वज्रेण हन्तु तम् ॥ - Atharvaveda/4/3/0/5
  • यो अद्य स्तेन आयत्यघायुर्मर्त्यो रिपुः। रात्री तस्य प्रतीत्य प्र ग्रीवाः प्र शिरो हनत् ॥ - Atharvaveda/19/49/0/9
  • यो अद्रिभित्प्रथमजा ऋतावा बृहस्पतिराङ्गिरसो हविष्मान्। द्विबर्हज्मा प्राघर्मसत्पिता न आ रोदसी वृषभो रोरवीति ॥ - Atharvaveda/20/90/0/1
  • यो अद्रिभित्प्रथमजा ऋतावा बृहस्पतिराङ्गिरसो हविष्मान्। द्विबर्हज्मा प्राघर्मसत्पिता न आ रोदसी वृषभो रोरवीति ॥१॥ - Rigveda/6/73/1
  • यो अध्वरेषु शंतम ऋतावा होता तमू नमोभिरा कृणुध्वम्। अग्निर्यद्वेर्मर्ताय देवान्त्स चा बोधाति मनसा यजाति ॥ - Rigveda/1/77/2
  • यो अनिध्मो दीदयदप्स्व१न्तर्यं विप्रास ईळते अध्वरेषु । अपां नपान्मधुमतीरपो दा याभिरिन्द्रो वावृधे वीर्याय ॥ - Rigveda/10/30/4
  • यो अनिध्मोदीदयदप्स्वन्तर्यं विप्रास ईडते अध्वरेषु। अपां नपान्मधुमतीरपोदा याभिरिन्द्रो वावृधे वीर्यावान् ॥ - Atharvaveda/14/1/0/37
  • यो अन्तरिक्षेण पतति दिवं यश्चातिसर्पति। भूमिं यो मन्यते नाथं तं पिशाचं प्र दर्शय ॥ - Atharvaveda/4/20/0/9
  • यो अन्धो यः पुनःसरो भगो वृक्षेष्वाहितः। तेन मा भगिनं कृण्वप द्रान्त्वरातयः ॥ - Atharvaveda/6/129/0/3
  • यो अन्नादो अन्नपतिर्बभूव ब्रह्मणस्पतिरुत यः। भूतो भविष्यद्भुवनस्य यस्पतिः। तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति। उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥ - Atharvaveda/13/3/0/7
  • यो अन्येद्युरुभयद्युरभ्येतीमं मण्डूकमभ्येत्वव्रतः ॥ - Atharvaveda/7/116/0/2
  • यो अपाचीने तमसि मदन्तीः प्राचीश्चकार नृतमः शचीभिः। तमीशानं वस्वो अग्निं गृणीषेऽनानतं दमयन्तं पृतन्यून् ॥४॥ - Rigveda/7/6/4
  • यो अप्सु चन्द्रमा इव सोमश्चमूषु ददृशे । पिबेदस्य त्वमीशिषे ॥ - Rigveda/8/82/8
  • यो अप्स्वा शुचिना दैव्येन ऋतावाजस्र उर्विया विभाति। वया इदन्या भुवनान्यस्य प्र जायन्ते वीरुधश्च प्रजाभिः॥ - Rigveda/2/35/8
  • यो अर्यो मर्तभोजनं पराददाति दाशुषे। इन्द्रो अस्मभ्यं शिक्षतु वि भजा भूरि ते वसु भक्षीय तव राधसः ॥ - Rigveda/1/81/6
  • यो अश्वस्य दधिक्राव्णो अकारीत्समिद्धे अग्ना उषसो व्युष्टौ। अनागसं तमदितिः कृणोतु स मित्रेण वरुणेना सजोषाः ॥३॥ - Rigveda/4/39/3
  • यो अश्वानां यो गवां गोपतिर्वशी य आरितः कर्मणिकर्मणि स्थिरः। वीळोश्चिदिन्द्रो यो असुन्वतो वधो मरुत्वन्तं सख्याय हवामहे ॥ - Rigveda/1/101/4
  • यो अश्वेभिर्वहते वस्त उस्रास्त्रिः सप्त सप्ततीनाम् । एभिः सोमेभिः सोमसुद्भि: सोमपा दानाय शुक्रपूतपाः ॥ - Rigveda/8/46/26
  • यो अस्मा अन्नं तृष्वा३दधात्याज्यैर्घृतैर्जुहोति पुष्यति । तस्मै सहस्रमक्षभिर्वि चक्षेऽग्ने विश्वत: प्रत्यङ्ङसि त्वम् ॥ - Rigveda/10/79/5
  • यो अस्मै घ्रंस उत वा य ऊधनि सोमं सुनोति भवति द्युमाँ अह। अपाप शक्रस्ततनुष्टिमूहति तनूशुभ्रं मघवा यः कवासखः ॥३॥ - Rigveda/5/34/3
  • यो अस्मै हविषाविधन्न तं पूषापि मृष्यते। प्रथमो विन्दते वसु ॥४॥ - Rigveda/6/54/4
  • यो अस्मै हव्यदातिभिराहुतिं मर्तोऽविधत् । भूरि पोषं स धत्ते वीरवद्यश: ॥ - Rigveda/8/23/21
  • यो अस्मै हव्यैर्घृतवद्भिरविधत्प्र तं प्राचा नयति ब्रह्मणस्पतिः। उरुष्यतीमंहसो रक्षती रिषों३होश्चिदस्मा उरुचक्रिरद्भुतः॥ - Rigveda/2/26/4
  • यो अस्य पारे रजसः शुक्रो अग्निरजायत । स न: पर्षदति द्विष: ॥ - Rigveda/10/187/5
  • यो अस्य पारे रजसः शुक्रो अग्निरजायत। स नः पर्षदति द्विषः ॥ - Atharvaveda/6/34/0/5
  • यो अस्य विश्वजन्मन ईशे विश्वस्य चेष्टतः। अन्येषु क्षिप्रधन्वने तस्मै प्राण नमोऽस्तु ते ॥ - Atharvaveda/11/4/0/23
  • यो अस्य समिधं वेद क्षत्रियेण समाहिताम्। नाभिह्वारे पदं नि दधाति स मृत्यवे ॥ - Atharvaveda/6/76/0/3
  • यो अस्य सर्वजन्मन ईशे सर्वस्य चेष्टतः। अतन्द्रो ब्रह्मणा धीरः प्राणो मानु तिष्ठतु ॥ - Atharvaveda/11/4/0/24
  • यो अस्य स्याद्वशाभोगो अन्यामिच्छेत तर्हि सः। हिंस्ते अदत्ता पुरुषं याचितां च न दित्सति ॥ - Atharvaveda/12/4/0/13
  • यो अस्या ऊधो न वेदाथो अस्या स्तनानुत। उभयेनैवास्मै दुहे दातुं चेदशकद्वशाम् ॥ - Atharvaveda/12/4/0/18
  • यो अस्या ऋच उपश्रुत्याथ गोष्वचीचरत्। आयुश्च तस्य भूतिं च देवा वृश्चन्ति हीडिताः ॥ - Atharvaveda/12/4/0/28
  • यो अस्याः कर्णावास्कुनोत्या स देवेषु वृश्चते। लक्ष्म कुर्व इति मन्यते कनीयः कृणुते स्वम् ॥ - Atharvaveda/12/4/0/6
  • यो गर्भमोषधीनां गवां कृणोत्यर्वताम् । पर्जन्य: पुरुषीणाम् ॥ - Rigveda/7/102/2
  • यो गिरिष्वजायथा वीरुधां बलवत्तमः। कुष्ठेहि तक्मनाशन तक्मानं नाशयन्नितः ॥ - Atharvaveda/5/4/0/1
  • यो गृणतामिदासिथापिरूती शिवः सखा। स त्वं न इन्द्र मृळय ॥१७॥ - Rigveda/6/45/17
  • यो जनान्महिषाँ इवातितस्थौ पवीरवान् । उतापवीरवान्युधा ॥ - Rigveda/10/60/3
  • यो जागार तमृचः कामयन्ते यो जागार तमु सामानि यन्ति । यो जागार तमयꣳ सोम आह तवाहमस्मि सख्ये न्योकाः ॥१८२६॥ - Samveda/1826
  • यो जागार तमृचः कामयन्ते यो जागार तमु सामानि यन्ति। यो जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः ॥१४॥ - Rigveda/5/44/14
  • यो जात एव प्रथमो मनस्वान्देवो देवान्क्रतुना पर्यभूषत्। यस्य शुष्माद्रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः ॥ - Atharvaveda/20/34/0/1
  • यो जात एव प्रथमो मनस्वान्देवो देवान्क्रतुना पर्यभूषत्। यस्य शुष्माद्रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः॥ - Rigveda/2/12/1
  • यो जाम्या अप्रथयस्तद्यत्सखायं दुधूर्षति। ज्येष्ठो यदप्रचेतास्तदाहुरधरागिति ॥ - Atharvaveda/20/128/0/2
  • यो जायमानः पृथिवीमदृंहद्यो अस्तभ्नादन्तरिक्षं दिवं च। यं बिभ्रतं ननु पाप्मा विवेद स नोऽयं दर्भो वरुणो दिवा कः ॥ - Atharvaveda/19/32/0/9
  • यो जिनाति तमन्विच्छ यो जिनाति तमिज्जहि। जिनतो वज्र त्वं सीमन्तमन्वञ्चमनु पातय ॥ - Atharvaveda/6/134/0/3
  • यो जिनाति न जीयते हन्ति शत्रुमभीत्य । स पवस्व सहस्रजित् ॥ - Rigveda/9/55/4
  • यो जिनाति न जीयते हन्ति शत्रुमभीत्य । स पवस्व सहस्रजित् ॥९७८॥ - Samveda/978
  • यो ददाति शितिपादमविं लोकेन संमितम्। स नाकमभ्यारोहति यत्र शुल्को न क्रियते अबलेन बलीयसे ॥ - Atharvaveda/3/29/0/3
  • यो दध्रेअन्तरिक्षे न मह्ना पितॄणां कविः प्रमतिर्मतीनाम्। तमर्चतविश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात् ॥ - Atharvaveda/18/3/0/63
  • यो दभ्रेभिर्हव्यो यश्च भूरिभिर्यो अभीके वरिवोविन्नृषाह्ये । तं विखादे सस्निमद्य श्रुतं नरमर्वाञ्चमिन्द्रमवसे करामहे ॥ - Rigveda/10/38/4
  • यो दाधार पृथिवीं विश्वभोजसं यो अन्तरिक्षमापृणाद्रसेन। यो अस्तभ्नाद्दिवमूर्ध्वो महिम्ना तेनौदनेनाति तराणि मृत्युम् ॥ - Atharvaveda/4/35/0/3
  • यो दुष्टरो विश्ववार श्रवाय्यो वाजेष्वस्ति तरुता । स न: शविष्ठ सवना वसो गहि गमेम गोमति व्रजे ॥ - Rigveda/8/46/9
Top