अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 16
यत्ते॒ वासः॑ परि॒धानं॒ यां नी॒विं कृ॑णु॒षे त्वम्। शि॒वं ते॑ त॒न्वि॒ तत्कृ॑ण्मः संस्प॒र्शेऽद्रू॑क्ष्णमस्तु ते ॥
स्वर सहित पद पाठयत् । ते॒ । वास॑: । प॒रि॒ऽधान॑म् । याम् । नी॒विम् । कृ॒णु॒षे । त्वम् । शि॒वम् । ते॒ । त॒न्वे᳡ । तत् । कृ॒ण्म॒: । स॒म्ऽस्प॒र्शे । अद्रू॑क्ष्णम् । अ॒स्तु॒ । ते॒ ॥२.१६॥
स्वर रहित मन्त्र
यत्ते वासः परिधानं यां नीविं कृणुषे त्वम्। शिवं ते तन्वि तत्कृण्मः संस्पर्शेऽद्रूक्ष्णमस्तु ते ॥
स्वर रहित पद पाठयत् । ते । वास: । परिऽधानम् । याम् । नीविम् । कृणुषे । त्वम् । शिवम् । ते । तन्वे । तत् । कृण्म: । सम्ऽस्पर्शे । अद्रूक्ष्णम् । अस्तु । ते ॥२.१६॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 16
भाषार्थ -
(यत्) जो (ते) तेरा (परिधानम्, वासः) ओढ़ने का वस्त्र है, (याम्) और जिस (नीविम्) अधोवस्त्र को (त्वम्) तू (कृणुषे) धारण करता है, (तत्) उसे (ते तन्वे) तेरी तनू के लिये (शिवम) कल्याणकारी वा सुखकारी (कृष्मः) हम करते हैं, वह (संस्पर्शे) शरीर के साथ स्पर्श में (ते) तेरे लिये (अद्रूक्षणम्) कोमल (अस्तु) हो।
टिप्पणी -
[अद्रूक्ष्णम्= अरूक्षणम् "दकार" का आगम। न-रुखा अर्थात् न-कठोर अपितु कोमल। नीविम्=नाभिदेशे संबद्धं वस्त्रं नीविरित्युच्यते (सायण)। पहनने के वस्त्र कोमल होने चाहिये। यह निर्देश रुग्णावस्था में है। नीविम् = निवीयते संव्रियते सा नीविः, दुकूलबन्धनं वा (उणा० ४।१३७, दयानन्दः)]।