अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 19
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
वि॒श्वव्य॑चा घृ॒तपृ॑ष्ठो भवि॒ष्यन्त्सयो॑निर्लो॒कमुप॑ याह्ये॒तम्। व॒र्षवृ॑द्ध॒मुप॑ यच्छ॒ शूर्पं॒ तुषं॑ प॒लावा॒नप॒ तद्वि॑नक्तु ॥
स्वर सहित पद पाठवि॒श्वऽव्य॑चा: । घृ॒तऽपृ॑ष्ठ: । भ॒वि॒ष्यन् । सऽयो॑नि: । लो॒कम् । उप॑ । या॒हि॒ । ए॒तम् । व॒र्षऽवृ॑ध्दम् । उप॑ । य॒च्छ॒ । शूर्प॑म् । तुष॑म् । प॒लावा॑न्। अप॑ । तत् । वि॒न॒क्तु॒ ॥३.१९॥
स्वर रहित मन्त्र
विश्वव्यचा घृतपृष्ठो भविष्यन्त्सयोनिर्लोकमुप याह्येतम्। वर्षवृद्धमुप यच्छ शूर्पं तुषं पलावानप तद्विनक्तु ॥
स्वर रहित पद पाठविश्वऽव्यचा: । घृतऽपृष्ठ: । भविष्यन् । सऽयोनि: । लोकम् । उप । याहि । एतम् । वर्षऽवृध्दम् । उप । यच्छ । शूर्पम् । तुषम् । पलावान्। अप । तत् । विनक्तु ॥३.१९॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 19
विषय - परस्पर उन्नति करने का उपदेश।
पदार्थ -
[हे विद्वान् !] (विश्वव्यचाः) सब व्यवहारों में फैला हुआ, (घृतपृष्ठः) प्रकाश से सींचता हुआ और (सयोनिः) समान घरवाला (भविष्यन्) भविष्यत् में होता हुआ तू (एतम्) इस (लोकम्) लोक [व्यवहार मण्डल] में (उप याहि) पहुँच। (वर्षवृद्धम्) वरणीय गुणों से बढ़े हुए (शूर्पम्) सूप को (उप यच्छ) ले, (तत्) तब [आप] (तुषम्) बुसी और (पलावान्) तिनके आदि को (अप विनक्तु) फटक डालें ॥१९॥
भावार्थ - मनुष्यों को योग्य है कि जैसे-जैसे वे बढ़ते जावें, भली-भाँति देख-भालकर दोषों का त्याग और गुणों का ग्रहण करें, जिस प्रकार सूप से कूड़ा-करकट फटक कर अन्न आदि सार पदार्थ ले लेते हैं ॥१९॥ इस मन्त्र का पूर्व भाग आगे मन्त्र ५३ में है ॥
टिप्पणी -
१९−(विश्वव्यचाः) सर्वव्यवहारेषु विस्तारशीलः (घृतपृष्ठः) अ० २।१३।१। पृषु सेके−थक्। घृतेन प्रकाशेन सेचकः (भविष्यन्) भविष्यति भवन् (सयोनिः) योनिर्गृहनाम−निघ० ३।४। समानगृहः (लोकम्) समाजम् (उप याहि) प्राप्नुहि (एतम्) (वर्षवृद्धम्) अ० ६।३०।३। वृञ्−वरणे स प्रत्ययः। वर्षैर्वरणीयगुणैः प्रवृद्धम् (उप यच्छ) यमु उपरमे। गृहाण (शूर्पम्) शूर्प माने−घञ्। धान्यस्फोटकम् (तुषम्) धान्यत्वचम् (पलावान्) पल गतौ रक्षणे च−अप्+अव रक्षणे गतौ च−अण्। पलान् शस्यशून्यधान्यनालान् अवन्ति प्राप्नुवन्ति ये ते पलावास्तान् तृणादीन् पदार्थान् (तत्) तदा (अपविनक्तु) विजिर् पृथग्भावे। वियोजयतु भवान् ॥