अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 25
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
पू॒ताः प॒वित्रैः॑ पवन्ते अ॒भ्राद्दिवं॑ च॒ यन्ति॑ पृथि॒वीं च॑ लो॒कान्। ता जी॑व॒ला जी॒वध॑न्याः प्रति॒ष्ठाः पात्र॒ आसि॑क्ताः॒ पर्य॒ग्निरि॑न्धाम् ॥
स्वर सहित पद पाठपू॒ता: । प॒वित्रै॑: । प॒व॒न्ते॒ । अ॒भ्रात् । दिव॑म् । च॒ । यन्ति॑ । पृ॒थि॒वीम् । च॒ । लो॒कान् । ता: । जी॒व॒ला: । जी॒वऽध॑न्या: । प्र॒ति॒ऽस्था: । पात्रे॑ । आऽसि॑क्ता: । परि॑ । अ॒ग्नि: । इ॒न्धा॒म् ॥३.२६॥
स्वर रहित मन्त्र
पूताः पवित्रैः पवन्ते अभ्राद्दिवं च यन्ति पृथिवीं च लोकान्। ता जीवला जीवधन्याः प्रतिष्ठाः पात्र आसिक्ताः पर्यग्निरिन्धाम् ॥
स्वर रहित पद पाठपूता: । पवित्रै: । पवन्ते । अभ्रात् । दिवम् । च । यन्ति । पृथिवीम् । च । लोकान् । ता: । जीवला: । जीवऽधन्या: । प्रतिऽस्था: । पात्रे । आऽसिक्ता: । परि । अग्नि: । इन्धाम् ॥३.२६॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 25
विषय - परस्पर उन्नति करने का उपदेश।
पदार्थ -
(पवित्रैः) शुद्ध व्यवहारों से (पूताः) शुद्ध किये गये [प्रजाजन−मन्त्र २७] (अभ्रात्) उपाय से (पवन्ते) [दूसरों को] शुद्ध करते हैं, वे (दिवम्) जय की इच्छा को (च) और (पृथिवीम्) प्रख्यात विद्या को (च) और (लोकान्) दर्शनीय घरों को (यन्ति) प्राप्त होते हैं। (ताः) उन (जीवलाः) जीवते हुए, (जीवधन्याः) जीवों में धन्य, (प्रतिष्ठाः) दृढ़ जमे हुए, (पात्रे) रक्षासाधन [ब्रह्म] मे (आसिक्ताः) भली-भाँति सींचे हुए [प्रजा जनों] को (अग्निः) प्रकाशस्वरूप परमेश्वर (परि) सब ओर से (इन्धाम्) प्रकाशमान करे ॥२५॥
भावार्थ - जो स्त्री-पुरुष अपने शुद्ध आचरणों से जय पाने के लिये उत्तम विद्याएँ और उत्तम गुण प्राप्त करते हैं, उन पुरुषार्थी प्रशंसनीय जनों को परमेश्वर अपने नियम से कीर्तिमान् करता है ॥२५॥
टिप्पणी -
२५−(पूताः) शोधिताः−म० २७। (पवित्रैः) शुद्धाचारैः (पवन्ते) शोधयन्ति (अभ्रात्) अभ्र गतौ−अप्। ल्यब्लोपे कर्मण्युपसंख्यानम्। वा० पा० ३।२।२८। अभ्रमुपायं संसाध्य (दिवम्) विजिगीषाम् (च) (यन्ति) प्राप्नुवन्ति (पृथिवीम्) प्रख्यातां विद्याम् (च) (लोकान्) दर्शनीयान् निवासान्, (ताः) प्रजाः−मा २७ (जीवलाः) अ० ६।५९।३। सिध्मादिभ्यश्च। पा० ५।२।९७। जीव्−लच् मत्वर्थे। जीवनयुक्ताः (जीवधन्याः) जीवेषु प्रशस्ताः (प्रतिष्ठाः) प्रतिष्ठां प्राप्ताः (पात्रे) रक्षासाधने ब्रह्मणि (आसिक्ताः) समन्तात् सेचनयुक्ताः (परि) सर्वतः (अग्निः) प्रकाशस्वरूपः परमेश्वरः (इन्धाम्) दीपयतु ॥