अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 27
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
उ॒तेव॑ प्र॒भ्वीरु॒त संमि॑तास उ॒त शु॒क्राः शुच॑यश्चा॒मृता॑सः। ता ओ॑द॒नं दंप॑तिभ्यां॒ प्रशि॑ष्टा॒ आपः॒ शिक्ष॑न्तीः पचता सुनाथाः ॥
स्वर सहित पद पाठउ॒त्ऽइ॑व । प्र॒ऽभ्वी: । उ॒त । सम्ऽमि॑तास: । उ॒त । शु॒क्रा: । शुच॑य: । च॒ । अ॒मृता॑स: । ता: । ओ॒द॒नम् । दंप॑तिऽभ्याम् । प्रऽशि॑ष्टा: । आ॒प॒: । शिक्ष॑न्ती: । प॒च॒त॒ । सु॒ऽना॒था॒: ॥३.२७॥
स्वर रहित मन्त्र
उतेव प्रभ्वीरुत संमितास उत शुक्राः शुचयश्चामृतासः। ता ओदनं दंपतिभ्यां प्रशिष्टा आपः शिक्षन्तीः पचता सुनाथाः ॥
स्वर रहित पद पाठउत्ऽइव । प्रऽभ्वी: । उत । सम्ऽमितास: । उत । शुक्रा: । शुचय: । च । अमृतास: । ता: । ओदनम् । दंपतिऽभ्याम् । प्रऽशिष्टा: । आप: । शिक्षन्ती: । पचत । सुऽनाथा: ॥३.२७॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 27
विषय - परस्पर उन्नति करने का उपदेश।
पदार्थ -
(उत इव) और जैसी (प्रभ्वीः) प्रबल (उत) और (संमितासः) सन्मान की गयी, (च) और (शुक्राः) वीर्यवाली, (शुचयः) शुद्ध आचरणवाली, (च) और (अमृतासः) अमर [सदा पुरुषार्थयुक्त], (प्रशिष्टाः) बड़ी शिष्ट [वेदवाक्य में विश्वास करनेवाली वा सुबोध], (शिक्षन्तीः) उपकार करती हुई (ताः) वे तुम सब, (आपः) हे आप्त प्रजाओ ! (सुनाथाः) हे बड़ी ऐश्वर्यवालियो ! (दम्पतिभ्याम्) दोनों पति-पत्नी के लिये (ओदनम्) सुख बरसानेवाले [परमेश्वर] को (पचत) परिपक्व करो, [हृदय में दृढ़ करो] ॥२७॥
भावार्थ - पति-पत्नी के हित के लिये अर्थात् गृहाश्रम की सिद्धि के लिये, तुम सब प्रकार से समर्थ और उपकारी होकर परमात्मा पर सदा विश्वास रक्खो ॥२७॥
टिप्पणी -
२७−(उत) अपि (इव) यथा (प्रभ्वीः) प्रभ्व्यः। समर्थाः (उत) (संमितासः) असुगागमः। संमानिताः (उत) (शुक्राः) वीर्यवत्यः (शुचयः) शुद्धाचरणाः (च) (अमृतासः) मरणरहिताः। पुरुषार्थयुक्ताः (ताः) तथाविधाः (ओदनम्) सुखवर्षकं परमात्मानम् (दम्पतिभ्याम्) जायापतिभ्याम् (प्रशिष्टाः) शासु अनुशिष्टौ−क्त। प्रकर्षेण शिष्टाः। वेदवाक्ये विश्वासकारिण्यः। सुबोधाः (आपः) हे आप्ताः प्रजाः (शिक्षन्तीः) अ० ६।११४।२। शक्लृ शक्तौ−सन्। शतृ, ङीप्। शक्तुमुपकर्तुमिच्छन्त्यः (पचत) पक्वं दृढं कुरुत (सुनाथाः) नाथ ऐश्वर्ये−अच्, टाप्। हे बह्वैश्वर्यवत्यः ॥