अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 51
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
ए॒षा त्व॒चां पुरु॑षे॒ सं ब॑भू॒वान॑ग्नाः॒ सर्वे॑ प॒शवो॒ ये अ॒न्ये। क्ष॒त्रेणा॒त्मानं॒ परि॑ धापयाथोऽमो॒तं वासो॒ मुख॑मोद॒नस्य॑ ॥
स्वर सहित पद पाठए॒षा । त्व॒चाम् । पुरु॑षे । सम् । ब॒भू॒व॒ । अन॑ग्ना: । सर्वे॑ । प॒शव॑: । ये । अ॒न्ये । क्ष॒त्रेण॑ । आ॒त्मान॑म् । परि॑ । ध॒प॒या॒थ॒: । अ॒मा॒ऽउ॒तम् । वास॑: । मुख॑म्। ओ॒द॒नस्य॑ ॥३.५१॥
स्वर रहित मन्त्र
एषा त्वचां पुरुषे सं बभूवानग्नाः सर्वे पशवो ये अन्ये। क्षत्रेणात्मानं परि धापयाथोऽमोतं वासो मुखमोदनस्य ॥
स्वर रहित पद पाठएषा । त्वचाम् । पुरुषे । सम् । बभूव । अनग्ना: । सर्वे । पशव: । ये । अन्ये । क्षत्रेण । आत्मानम् । परि । धपयाथ: । अमाऽउतम् । वास: । मुखम्। ओदनस्य ॥३.५१॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 51
विषय - परस्पर उन्नति करने का उपदेश।
पदार्थ -
(त्वचाम्) त्वचाओं [शरीर की खालों] में से (एषा) यह (पुरुषे) पुरुष [शरीर] पर (सम् बभूव) मिली है, और (वे) जो (अन्ये) दूसरे (पशवः) जीव हैं, (सर्वे) वे सब [भी] (अनग्नाः) बिना नंगे [खालवाले] हैं। [हे स्त्री-पुरुषो !] तुम दोनों (क्षत्रेण) हानि से बचानेवाले बल से (आत्मानम्) अपने को (परि धापयाथः) ढँपवाओ, [जैसे] (अमोतम्) ज्ञान से बुना हुआ (वासः) कपड़ा (ओदनस्य) अन्न आदि का (मुखम्) मुख्य [रक्षासाधन] है ॥५१॥
भावार्थ - मनुष्यों में मनुष्य शरीर और अन्य जीवों में अन्य प्रकार के शरीर व्यक्तिसूचक हैं, किन्तु मनुष्य ही परमात्मा के ज्ञान से मनुष्यत्व पाकर उन्नति करते हैं, जैसे समझ-बूझकर बनाया हुआ वस्त्र पदार्थों के रखने में समर्थ होता है ॥५१॥
टिप्पणी -
५१−(एषा) दृश्यमाना (त्वचाम्) शरीरचर्मणां मध्ये (पुरुषे) पुरुषशरीरे (संबभूव) उत्पन्ना बभूव (अनग्नाः) नञ् ओनजी व्रीडायाम्−क्त। सवस्त्राः। सचर्माणः (सर्वे) (पशवः) प्राणिनः (ये) (अन्ये) (क्षत्रेण) क्षतः क्षतात् त्रायकेण बलेन (आत्मानम्) (परि धापयाथः) आच्छादयतं युवाम् (अमोतम्) अ० ९।५।१४। अम गतौ−घ प्रत्ययः, टाप्+ वेञ् तन्तुसन्ताने−क्त। ज्ञानेन उतं स्यूतम् (वासः) वस्त्रम् (मुखम्) प्रधानं रक्षासाधनम् (ओदनस्य) अन्नस्य ॥