अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 5
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
यं वां॑ पि॒ता पच॑ति॒ यं च॑ मा॒ता रि॒प्रान्निर्मु॑क्त्यै॒ शम॑लाच्च वा॒चः। स ओ॑द॒नः श॒तधा॑रः स्व॒र्ग उ॒भे व्याप॒ नभ॑सी महि॒त्वा ॥
स्वर सहित पद पाठयम् । वा॒म् । पि॒ता । पच॑ति । यम् । च॒ । मा॒त । रि॒प्रात् । नि:ऽमु॑क्त्यै । शम॑लात् । च॒ । वा॒च: । स: । ओ॒द॒न: । श॒तऽधा॑र: । स्व॒:ऽग: । उ॒भे इति॑ । वि । आ॒प॒ । नभ॑सी॒ इति॑ । म॒हि॒ऽत्वा ॥३.५॥
स्वर रहित मन्त्र
यं वां पिता पचति यं च माता रिप्रान्निर्मुक्त्यै शमलाच्च वाचः। स ओदनः शतधारः स्वर्ग उभे व्याप नभसी महित्वा ॥
स्वर रहित पद पाठयम् । वाम् । पिता । पचति । यम् । च । मात । रिप्रात् । नि:ऽमुक्त्यै । शमलात् । च । वाच: । स: । ओदन: । शतऽधार: । स्व:ऽग: । उभे इति । वि । आप । नभसी इति । महिऽत्वा ॥३.५॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 5
विषय - परस्पर उन्नति करने का उपदेश।
पदार्थ -
(यम्) जिस [परमेश्वर] को (वाम्) तुम दोनों का (पिता) पिता (च) और (यम्) जिस को (माता) तुम्हारी माता (रिप्रात्) पाप से (च) और (शमलात्) भ्रष्ट व्यवहार से (निर्मुक्त्यै) छूटने के लिये (वाचः) अपनी वाणियों द्वारा (पचति) पक्का [दृढ़] करती है। (सः) वह (शतधारः) सैकड़ों धारण शक्तियोंवाला, (स्वर्गः) सुख पहुँचानेवाला (ओदनः) ओदन [सुख बरसानेवाला परमेश्वर] (महित्वा) अपने महत्त्व से (उभे) दोनों (नभसी) सूर्य और पृथिवी [प्रकाशमान और अप्रकाशमान] लोकों में (वि आप) व्यापक हुआ है ॥५॥
भावार्थ - हे स्त्री-पुरुषो ! जिस परमात्मा को तुम्हारे विद्वान् माता-पिता ने पाप से छूटने के लिये साक्षात् किया है, वैसा ही तुम जानो ॥५॥
टिप्पणी -
५−(यम्) ओदनं परमेश्वरम् (वाम्) युवयोः (पिता) जनकः (पचति) अयं द्विकर्मकः। पक्वं करोति (यम्) (च) (माता) (रिप्रात्) पापात् (निर्मुक्त्यै) वियोजनाय (शमलात्) अ० १२।२।४०। भ्रष्टव्यवहारात् (च) (वाचः) अकथितं च। पा० १।४।५१। तृतीयार्थे द्वितीया। वाग्भिः (सः) (ओदनः) सुखवर्षकः परमेश्वरः (शतधारः) बहुधारणसामर्थ्योपेतः (स्वर्गः) सुखप्रापकः (उभे) (व्याप) व्याप्तवान् (नभसी) द्यावापृथिव्यौ। प्रकाशमानाप्रकाशमानौ लोकौ (महित्वा) महत्त्वेन ॥