अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 6
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
उ॒भे नभ॑सी उ॒भयां॑श्च लो॒कान्ये यज्व॑नाम॒भिजि॑ताः स्व॒र्गाः। तेषां॒ ज्योति॑ष्मा॒न्मधु॑मा॒न्यो अग्रे॒ तस्मि॑न्पु॒त्रैर्ज॒रसि॒ सं श्र॑येथाम् ॥
स्वर सहित पद पाठउ॒भे इति॑ । नभ॑सी॒ इति॑ । उ॒भया॑न् । च॒ । लो॒कान् । ये । यज्व॑नाम् । अ॒भिऽजि॑ता: । स्व॒:ऽगा: । तेषा॑म् । ज्योति॑ष्मान् । मधु॑ऽमान् । य: । अग्रे॑ । तस्मि॑न् । पु॒त्रै: । ज॒रसि॑ । सम् । श्र॒ये॒था॒म् ॥३.६॥
स्वर रहित मन्त्र
उभे नभसी उभयांश्च लोकान्ये यज्वनामभिजिताः स्वर्गाः। तेषां ज्योतिष्मान्मधुमान्यो अग्रे तस्मिन्पुत्रैर्जरसि सं श्रयेथाम् ॥
स्वर रहित पद पाठउभे इति । नभसी इति । उभयान् । च । लोकान् । ये । यज्वनाम् । अभिऽजिता: । स्व:ऽगा: । तेषाम् । ज्योतिष्मान् । मधुऽमान् । य: । अग्रे । तस्मिन् । पुत्रै: । जरसि । सम् । श्रयेथाम् ॥३.६॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 6
विषय - परस्पर उन्नति करने का उपदेश।
पदार्थ -
(ये) जो [लोक] (यज्वनाम्) यज्ञ [श्रेष्ठ व्यवहार] करनेवालों के (अभिजिताः) सब ओर से जीते हुए और (स्वर्गाः) सुख पहुँचानेवाले हैं, (तेषाम्) उन [लोकों] के मध्य (यः) जो [परमेश्वर] (अग्रे) पहिले से (ज्योतिष्मान्) प्रकाशमय और (मधुमान्) ज्ञानमय है, (तस्मिन्) उस [परमेश्वर] में (वर्तमान) (उभे) दोनों (नभसी) सूर्य और पृथिवी [प्रकाशमान और अप्रकाशमान] लोकों को (च) और (उभयान्) दोनों [स्त्री-पुरुष] समूहवाले (लोकान्) लोकों [समाजों वा घरों] को (पुत्रैः) अपने पुत्रों [दुःख से बचानेवालों] के साथ (जरसि) स्तुति में रहकर (सं श्रयेथाम्) तुम दोनों [स्त्री-पुरुष] मिलकर सेवो ॥६॥
भावार्थ - स्त्री-पुरुषों को चाहिये कि विद्वानों के समान परमात्मा के रचे पदार्थों से यथावत् उपकार लेकर अपने विद्वान् धीर सन्तानों के साथ कीर्तिमान् होकर आनन्द पावें ॥६॥
टिप्पणी -
६−(उभे) द्वे (नभसी) द्यावापृथिव्यौ (उभयान्) स्त्रीपुरुषसमूहद्वययुक्तान् (च) (लोकान्) समाजान् गृहाणि वा (ये) लोकाः (यज्वनाम्) अ० ४।२१।२। यज−ङ्वनिप्। वेदविधानेन कृतधर्मणाम् (अभिजिताः) अभिप्राप्ताः (स्वर्गाः) सुखप्रापकाः (तेषाम्) लोकानां मध्ये (ज्योतिष्मान्) तेजोमयः (मधुमान्) विज्ञानमयः (यः) परमेश्वरः (अग्रे) आदौ (तस्मिन्) परमेश्वरे (पुत्रैः) म० ४। नरकात् त्रायकैः सह (जरसि) अ० १।३०।२। जॄ स्तुतौ−असुन्। स्तुतौ (संश्रयेथाम्) युवां परस्परं सेवेथाम् ॥