अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 32
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
नवं॑ ब॒र्हिरो॑द॒नाय॑ स्तृणीत प्रि॒यं हृ॒दश्चक्षु॑षो व॒ल्ग्वस्तु। तस्मि॑न्दे॒वाः स॒ह दै॒वीर्वि॑शन्त्वि॒मं प्राश्न॑न्त्वृ॒तुभि॑र्नि॒षद्य॑ ॥
स्वर सहित पद पाठनव॑म् । ब॒र्हि: । ओ॒द॒नाय॑ । स्तृ॒णी॒त॒ । प्रि॒यम् । हृ॒द: । चक्षु॑ष: । व॒ल्गु । अ॒स्तु॒ । तस्मि॑न् । दे॒वा:। स॒ह । दै॒वी: । वि॒श॒न्तु॒ । इ॒मम् । प्र । अ॒श्न॒न्तु॒ । ऋ॒तुऽभि॑: । नि॒ऽसद्य॑ ॥३.३२॥
स्वर रहित मन्त्र
नवं बर्हिरोदनाय स्तृणीत प्रियं हृदश्चक्षुषो वल्ग्वस्तु। तस्मिन्देवाः सह दैवीर्विशन्त्विमं प्राश्नन्त्वृतुभिर्निषद्य ॥
स्वर रहित पद पाठनवम् । बर्हि: । ओदनाय । स्तृणीत । प्रियम् । हृद: । चक्षुष: । वल्गु । अस्तु । तस्मिन् । देवा:। सह । दैवी: । विशन्तु । इमम् । प्र । अश्नन्तु । ऋतुऽभि: । निऽसद्य ॥३.३२॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 32
विषय - परस्पर उन्नति करने का उपदेश।
पदार्थ -
[हे मनुष्यो !] (नवम्) नवीन (बर्हिः) आसन (ओदनाय) भात [रँधे चावल जीमने] के लिये (स्तृणीत) बिछाओ, वह [आसन] (हृदः) हृदय का (प्रियम्) प्रिय और (चक्षुषः) नेत्र का (वल्गु) रमणीय (अस्तु) होवे। (तस्मिन्) उस [आसन] पर (देवाः) देवता [विद्वान् लोग] और (देवीः) देवियाँ [विदुषी स्त्रियाँ] (सह) साथ-साथ (विशन्तु) बैठें और (ऋतुभिः) सब ऋतुओं के साथ (निषद्य) बैठकर (इमम्) इस [भात] को (प्र अश्नन्तु) स्वाद से जीमें ॥३२॥
भावार्थ - जैसे मनुष्य रुचिर भोजन को रमणीक स्थान में ऋतुओं के अनुसार जीमकर प्रसन्न होते हैं, वैसे ही योगी जन शुद्ध अन्तःकरण में परमात्मा के अनुभव से मोक्षसुख पाते हैं ॥३२॥
टिप्पणी -
३२−(नवम्) नवीनम् (बर्हिः) आसनम् (ओदनाय) भक्तं जेमितुम् (स्तृणीत) आच्छादयत (प्रियम्) हितकरम् (हृदः) हृदयस्य (चक्षुषः) नेत्रस्य (वल्गु) रमणीयम् (अस्तु) (तस्मिन्) बर्हिषि (देवाः) विद्वांसः (सह) परस्परम् (देवीः) विदुष्यः (विशन्तु) निषीदन्तु (इमम्) ओदनम् (प्राश्नन्तु) स्वादु भक्षयन्तु (ऋतुभिः) समुचितकालैः (निषद्य) उपविश्य ॥